________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1074 // मध्ययनम् प्रतिक्रमणं, ४.१ध्यान शुक्लस्यक्षान्ताद्यालम्बनानि। त्मादौ, किं? नानानयैः- द्रव्यास्तिकादिभिरनुस्मरणं-चिन्तनम्, कथं?- पूर्वगतश्रुतानुसारेण पूर्वविदः, मरुदेव्यादीनां त्वन्यथा॥ 4. चतुर्थतत्किमित्याह सवियारमत्थवंजणजोगंतरओ तयं पढमसुक्कं / होइ पुहुत्तवितक्कं सवियारमरागभावस्स ॥सू० गा० 78 // सविचारं सह विचारेण वर्तत इति 2, विचारः- अर्थव्यञ्जनयोगसङ्कम इति, आह च- अर्थव्यञ्जनयोगान्तरतः- अर्थ:- शतकम्। सू०गा० द्रव्यं व्यञ्जनं- शब्दः योग:- मनःप्रभृति एतदन्तरत:- एतावद्भेदेन सविचारम्, अर्थाव्यञ्जनं सङ्कामतीति विभाषा, तकं 78-81 एतत् प्रथमं शुक्लं आद्यशुक्लं भवति, किंनामेत्यत आह-पृथक्त्ववितर्कं सविचारं पृथक्त्वेन-भेदेन विस्तीर्णभावेनान्ये वितर्क:श्रुतं यस्मिन् तत्तथा, कस्येदं भवतीत्यत आह- अरागभावस्य रागपरिणामरहितस्येति गाथार्थः॥७८॥ जंपुण सुणिप्पकंपं निवायसरणप्पईवमिव चित्तं / उप्पायठिइभंगाइयाणमेगंमि पजाए।सू० गा०७९॥ यत्पुनः सुनिष्प्रकम्पं विक्षेपरहितं निवातशरणप्रदीप इव निर्गतवातगृहैकदेशस्थदीप इव चित्तं अन्तः करणं क्व?- उत्पादस्थितिभङ्गादीनामेकस्मिन् पर्याये॥७९॥ ततः किमत आह अवियारमत्थवंजणजोगंतरओ तयं बितियसुक्कं / पुव्वगयसुयालंबणमेगत्तवितक्कमवियारं ।।सू० गा०८०॥ अविचारं- असङ्कमम्, कुतः?- अर्थव्यञ्जनयोगान्तरतः इति पूर्ववत्, तमेवंविधं द्वितीयं शुक्लं भवति, किमभिधानमित्यत आह- एकत्ववितर्कमविचारं एकत्वेन- अभेदेन वितर्क:व्यञ्जनरूपोऽर्थरूपोवा यस्य तत्तथा, इदमपिच पूर्वगतश्रुतानुसारेणैवी भवति, अविचारादि पूर्ववदिति गाथार्थः / / 80 // निव्वाणगमणकाले केवलिणो दरनिरुद्धजोगस्स / सुहुमकिरियाऽनियमितइयंतणुकायकिरियस्स॥सू० गा०८१।।