SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1071 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.1 ध्यानशतकम्। सूगा० 74-76 शक्लस्यक्षान्ताद्यालम्बनानि। तह विसइंधणहीणोमणोहुयासो कमेण तणुयंमि / विसइंधणे निरंभइ निव्वाइ तओऽवणीओ य॥सू० गा०७४॥ तथा विषयेन्धनहीनः गोचरेन्धनरहित इत्यर्थः, मन एव दुःखदाहकारणत्वाद् हुताशो मनोहुताशः, क्रमेण परिपाट्या तनुके कृशे, क्व?- विषयेन्धने अणावित्यर्थः, किं?- निरुध्यते निश्चयेन ध्रियते, तथा निर्वाति ततः तस्मादणोरपनीतश्चेति गाथार्थः // 74 // पुनरप्यस्मिन्नेवार्थे दृष्टान्तोपनयावाहB तोयमिव नालियाए तत्तायसभायणोदरत्थं वा। परिहाइ कमेण जहा तह जोगिमणोजलं जाण ॥सू० गा०७५॥ तोयमिव उदकमिव नालिकायाः घटिकायाः तथा तप्तं च तदायसभाजनं- लोहभाजनं च तप्तायसभाजनं तदुदरस्थम्, वा. विकल्पार्थः, परिहीयते क्रमेण यथा, एष दृष्टान्तः, अयमर्थोपनयः- तथा तेनैव प्रकारेण योगिमन एवाविकलत्वाजलं 2 जानीहि अवबुद्ध्यस्व, तथाऽप्रमादानलतप्तजीवभाजनस्थं मनोजलं परिहीयत इति भावना, अलमतिविस्तरेणेति गाथार्थः॥ 75 // अपनयति ततोऽपि जिनवैद्यइतिवचनाद् एवं तावत् केवली मनोयोगं निरुणद्धीत्युक्तम्, अधुना शेषयोगनियोगविधिमभिधातुकाम आह एवं चिय वयजोगं निरंभइ कमेण कायजोगंपि / तो सेलेसोव्व थिरो सेलेसी केवली होइ॥सू० गा०७६॥ एवमेव एभिरेव विषादिदृष्टान्तः, किं?- वाग्योगं निरुणद्धि, तथा क्रमेण काययोगमपि निरुणद्धीति वर्तते, ततः शैलेश इव मेरुरिव स्थिरः सन् शैलेशी केवली भवतीति गाथार्थः॥ 76 // इह च भावार्थो नमस्कारनिर्युक्तौ प्रतिपादित एव, तथाऽपिस्थानाशून्यार्थं स एव लेशतः प्रतिपाद्यते, तत्र योगानामिदं स्वरूपं- औदारिकादिशरीरयुक्तस्याऽऽत्मनो वीर्यपरिणतिविशेष: काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याजीवव्यापारो वाग्योगः, तथौदारिक // 1071 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy