________________ मध्ययनम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1070 // 4.1 ध्यानशतकम्। सू०गा० शुक्लस्यक्षान्ताद्यालम्बनानि। प्रयत्नविशेषान्मनोऽपनीय अमनाः अविद्यमानान्तःकरण: जिनो भवति अर्हन् भवति, चरमयोर्द्वयोर्ध्यातेति वाक्यशेषः, तत्रा- 4. चतुर्थप्याद्यस्यान्तर्मुहूर्तेन शैलेशीमप्राप्तः, तस्यां च द्वितीयस्येति गाथार्थः॥ 70 // आह-कथं पुनश्छद्मस्थस्त्रिभुवनविषयं मनः प्रतिक्रमणं, संक्षिप्याणौ धारयति?, केवली वा ततोऽप्यपनयतीति?, अत्रोच्यते जह सव्वसरीरगयं मंतेण विसं निरंभए डंके। तत्तो पुणोऽवणिजइ पहाणयरमंतजोगेणं॥सू० गा०७१।। यथे त्युदाहरणोपन्यासार्थः, सर्वशरीरगतं सर्वदेहव्यापकं मन्त्रेण विशिष्टवर्णानुपूर्वीलक्षणेन विषं मारणात्मकं द्रव्यं निरुध्यते / निश्चयेन ध्रियते, क्व?- डङ्के भक्षणदेशे, ततः डङ्कात्पुनरपनीयते, केनेत्यत आह- प्रधानतरमन्त्रयोगेन श्रेष्ठतरमन्त्रयोगेनेत्यर्थः, मन्त्रयोगाभ्यामिति च पाठान्तरं वा, अत्र पुनर्योगशब्देनागदः परिगृह्यते इति गाथार्थः॥७१॥ एष दृष्टान्तः, अयमर्थोपनयः तह तिहुयणतणुविसयंमणोविसं जोगमंतबलजुत्तो। परमाणुंमि निरंभइ अवणे, तओवि जिणवेजो।।सू० गा०७२।। तथा त्रिभुवनतनुविषयं त्रिभुवनशरीरालम्बनमित्यर्थः, मन एव भवमरणनिबन्धनत्वाद्विषं मन्त्रयोगबलयुक्त:- जिनवचनध्यानसामर्थ्यसम्पन्नः परमाणौ निरुणद्धि, तथाऽचिन्त्यप्रयत्नाच्चापनयति ततोऽपि तस्मादपि परमाणोः, कः?- जिनवैद्यः / / जिनभिषग्वर इति गाथार्थः॥७२॥ अस्मिन्नेवार्थे दृष्टान्तान्तरमभिधातुकाम आह उस्सारियेंधणभरो जह परिहाइ कमसो हुयासुव्व / थोविंधणावसेसो निव्वाइ तओऽवणीओ य / सू० गा०७३॥ उत्सारितेन्धनभरः अपनीतदाहासङ्घातः यथा परिहीयते हानि प्रतिपद्यते क्रमशः क्रमेण हुताशः वह्निः, वा विकल्पार्थः, In स्तोकेन्धनावशेषः हुताशमानं भवति, तथा निर्वाति विध्यायति ततः स्तोकेन्धनादपनीतश्चेति गाथार्थः॥७३॥ अस्यैव / दृष्टान्तोपनयमाह