SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ ||1069 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, ४.१ध्यानशतकम्। सू०गा० 69-70 शुक्लस्यक्षान्ताद्यालम्बनानि। इति गाथार्थः॥ ६८॥गतं लिङ्गद्वारम्, अधुना फलद्वारावसरः, तच्च लाघवार्थ शुक्लध्यानफलाधिकारे वक्ष्यतीत्युक्तंधर्मध्यानम्, इदानीं शुक्लध्यानावसर इत्यस्य चान्वर्थः प्राग्निरूपित एव, इहापि च भावनादीनि फलान्तानि तान्येव द्वादश द्वाराणि भवन्ति, तत्र भावनादेशकालासनविशेषेषु (धर्म) ध्यानादस्याविशेष एवेत्यत एतान्यनादृत्याऽऽलम्बनान्यभिधित्सुराह अह खंतिमद्दवजवमुत्तीओ जिणमयप्पहाणाओ। आलंबणाइँजेहिं सुक्कज्झाणं समारुहइ ।सू० गा०६९॥ __ अथे त्यासनविशेषानन्तर्ये, क्षान्तिमाईवार्जवमुक्तयः क्रोधमानमायालोभपरित्यागरूपाः, परित्यागश्च क्रोधनिवर्तनमुदयनिरोधः उदीर्णस्य वा विफलीकरणमिति, एवं मानादिष्वपि भावनीयम्, एता एव क्षान्तिमाईवार्जवमुक्तयो विशेष्यन्ते- जिनमतप्रधाना इति जिनमते- तीर्थकरदर्शने कर्मक्षयहेतुतामधिकृत्य प्रधानाः 2, प्राधान्यं चासामकषायंचारित्रं चारित्राच्च नियमतो मुक्तिरितिकृत्वा, ततश्चैता आलम्बनानि- प्राग्निरूपितशब्दार्थानि, पैरालम्बनैः करणभूतैः शुक्लध्यानं समारोहति, तथा च क्षान्त्याद्यालम्बना एव शुक्लध्यानं समासादयन्ति, नान्य इति गाथार्थः॥६९॥व्याख्यातं शुक्लध्यानमधिकृत्याऽऽलम्बनद्वारम्, साम्प्रतं क्रमद्वारावसरः, क्रमश्चाऽऽद्ययोर्धर्मध्यान एवोक्तः, इह पुनरयं विशेष:| तिहुयणविसयं कमसो संखिविउ मणो अणुंमि छउमत्थो / झायइ सुनिप्पकंपोझाणं अमणो जिणो होइ / / सू० गा०७०॥ त्रिभुवनं- अधस्तिर्यगूर्ध्वलोकभेदं तद्विषयः- गोचरः आलम्बनं यस्य मनस इति इति योगः, तत्रिभुवनविषयं क्रमशः क्रमेण परिपाट्या-प्रतिवस्तुपरित्यागलक्षणया संक्षिप्य सङ्कोच्य, किं?- मनः अन्तःकरणं, क्व?- अणौ परमाणौ, निधायेति शेषः, कः?- छद्मस्थः प्राग्निरूपितशब्दार्थः, ध्यायति चिन्तयति सुनिष्प्रकम्पः अतीव निश्चल इत्यर्थः, ध्यानं शुक्लम्, ततोऽपि ॐ क्रोधे न वर्त्तनं (प्र०)।
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy