SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1068 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, ४.१ध्यानशतकम्। सू०गा० 66-68 शुक्लस्यक्षान्ताधालम्बनानि। होंति कमविसुद्धाओलेसाओ पीयपम्हसुक्काओ। धम्मज्झाणोवगयस्स तिव्वमंदाइभेयाओ॥सू० गा०६६॥ इह भवन्ति संजायन्ते क्रमविशुद्धाः परिपाटिविशुद्धाः, काः?-लेश्याः, ताश्च पीतपद्मशुक्लाः, एतदुक्तं भवति-पीतलेश्यायाः पद्मलेश्या विशुद्धा तस्या अपि शुक्ललेश्येति क्रमः, कस्यैता भवन्त्यत आह- धर्मध्यानोपगतस्य धर्मध्यानयुक्तस्येत्यर्थः, किंविशिष्टाश्चैता भवन्त्यत आह-तीव्रमन्दादिभेदा इति तत्र तीव्रभेदाः पीतादिस्वरूपेष्वन्त्याः, मन्दभेदास्त्वाद्याः, आदिशब्दान्मध्यमपक्षपरिग्रहः, अथवौघत एव परिणामविशेषातीव्रमन्दभेदा इतिगाथार्थः॥६६॥उक्तं लेश्याद्वारम्, इदानीं लिङ्गद्वार विवृण्वन्नाह आगमउवएसाणाणिसग्गओजं जिणप्पणीयाणं / भावाणं सद्दहणं धम्मज्झाणस्स तं लिंगं / / सू० गा०६७।। इहागमोपदेशाज्ञानिसर्गतो यद् जिनप्रणीतानां तीर्थकरप्ररूपितानां द्रव्यादिपदार्थानां श्रद्धानं अवितथा एत इत्यादिलक्षणं धर्मध्यानस्य तल्लिङ्गम्, तत्त्वश्रद्धानेन लिङ्गयते धर्मध्यायीति, इह चागमः- सूत्रमेव तदनुसारेण कथनं- उपदेशः आज्ञा त्वर्थः / निसर्ग:- स्वभाव इति गाथार्थः // 67 // किं च जिणसाहूगुणकित्तणपसंसणाविणयदाणसंपण्णो / सुअसीलसंजमरओ धम्मज्झाणी मुणेकवो॥सू० गा०६८॥ जिनसाधुगुणोत्कीर्तनप्रशंसाविनयदानसम्पन्नः इह जिनसाधवः- प्रतीतास्तद्गुणाश्च निरतिचारसम्यग्दर्शनादयस्तेषामुत्कीर्तनंसामान्येन संशब्दनमुच्यते, प्रशंसा त्वहोश्लाघ्यतया भक्तिपूर्विका स्तुतिः, विनयः- अभ्युत्थानादि, दानं- अशनादिप्रदानम्, एतत्सम्पन्नः- एतत्समन्वितः, तथा श्रुतशीलसंयमरतः, तत्र श्रुतं- सामायिकादिबिन्दुसारान्तं शीलं-व्रतादिसमाधानलक्षणं संयमस्तु प्राणातिपातादिनिवृत्तिलक्षणः, यथोक्तं-'पञ्चाश्रवा' दित्यादि, एतेषु भावतो रतः, किं?- धर्मध्यानीति ज्ञातव्य // 1068 // वतः, तथा मालाध्यतया भाव:-प्रतीतामझाणी मुणेक
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy