SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ 4. चतुर्थमध्ययनम् प्रतिक्रमणं, ४.१ध्यानशतकम्। सूगा०६५ शुक्लस्यक्षान्ताधालम्बनानि। // 1067 // एत एव येऽनन्तरमेव धर्मध्यानध्यातार उक्ताः पूर्वयोः इत्याद्ययोर्द्वयोः शुक्लध्यानभेदयोः पृथक्त्ववितर्कसविचारमेकत्ववितर्कमविचारमित्यनयोः ध्यातार इति गम्यते, अयंपुनर्विशेष: पूर्वधराः चतुर्दशपूर्वविदस्तदुपयुक्ताः, इदंच पूर्वधरविशेषणमप्रमादवतामेव वेदितव्यम्, न निर्ग्रन्थानाम्, माषतुषमरुदेव्यादीनामपूर्वधराणामपि तदुपपत्तेः, सुप्रशस्तसंहनना इत्याद्यसंहननयुक्ताः, इदं पुनरोघत एव विशेषणमिति, तथा द्वयोः शुक्लयोः परयोः- उत्तरकालभाविनोः प्रधानयोर्वा सूक्ष्मक्रियानिवृत्तिव्युपरतक्रियाऽप्रतिपातिलक्षणयोर्यथासङ्ख्यं सयोगायोगकेवलिनो ध्यातार इति योगः, एवं च गम्मए-सुक्कज्झाणाइदुगं वोलीण्णस्स ततियमप्पत्तस्स एयाए झाणंतरियाए वट्टमाणस्स केवलणाणमुप्पज्जइ, केवली य सुक्कलेसोऽज्झाणी या जाव सुहुमकिरियमनियट्टि'त्ति गाथार्थः।। 64 // उक्तमानुषङ्गिकम्, इदानीमवसरप्राप्तमनुप्रेक्षाद्वारं व्याचिख्यासुरिदमाह झाणोवरमेऽविमुणी णिच्चमणिच्चाइभावणापरमो। होइ सुभावियचित्तो धम्मज्झाणेण जो पुव्विं / सू० गा०६५ // इह ध्यानं धर्मध्यानमभिगृह्यते, तदुपरमेऽपि- तद्विगमेऽपि मुनिः साधुः नित्यं सर्वकालमनित्यादिचिन्तनापरमो भवति, आदिशब्दादशरणैकत्वसंसारपरिग्रहः, एताश्च द्वादशानुप्रेक्षा भावयितव्याः, इष्टजनसम्प्रयोगर्द्धिविषयसुखसम्पदः (प्रशमरतौ 151163) इत्यादिना ग्रन्थेन, फलं चासां सचित्तादिष्वनभिष्वङ्गभवनिर्वेदाविति भावनीयम्, अथ किंविशिष्टोऽनित्यादिचिन्तनापरमो भवतीत्यत आह- सुभावितचित्तः सुभावितान्तःकरणः, केन?- धर्मध्यानेन प्राग्निरूपितशब्दार्थेन यः कश्चित् / पूर्वं आदाविति गाथार्थः॥६५॥गतमनुप्रेक्षाद्वारम्, अधुना लेश्याद्वारप्रतिपादनायाह Oएवं च गम्यते- शुक्लध्यानादिद्वयं व्यतिक्रान्तस्य तृतीयमप्राप्तस्य एतस्यां ध्यानान्तरिकायां वर्तमानस्य केवलज्ञानमुत्पद्यते, केवली च शुक्ललेश्योऽध्यानी च यावत् सूक्ष्मक्रियमनिवृत्तीति / // 1067 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy