SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग॥१०६६॥ 4. चतुर्थमध्ययनम् प्रतिक्रमणं, ४.१ध्यानशतकम्। सूगा० 62-64 धर्मध्यानस्य भावनादेशकालादि। क्रिया प्राग्वदिति गाथार्थः॥६१॥ किंबहुणा? सव्वं चियजीवाइपयत्थवित्थरोवेयं / सव्वनयसमूहमयं झाएजा समयसब्भावं॥सू० गा०६२॥ किंबहुना भाषितेन?,सर्वमेव निरवशेषमेव जीवादिपदार्थविस्तरोपेतं जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षाख्यपदार्थप्रपञ्चसमन्वितं समयसद्धावमिति योगः, किंविशिष्टं?- सर्वनयसमूहात्मकं द्रव्यास्तिकादिनयसङ्घातमयमित्यर्थः, ध्यायेत् विचिन्तयेदिति भावना, समयसद्भावं सिद्धान्तार्थमिति हृदयम्, अयं गाथार्थः॥६२॥गतं ध्यातव्यद्वारम्, साम्प्रतं येऽस्य ध्यातारस्तान् प्रतिपादयन्नाह सव्वप्पमायरहिया मुणओखीणोवसंतमोहा य / झायारो नाणधणा धम्मज्झाणस्स निहिट्ठा॥सू० गा०६३॥ प्रमादा- मद्यादयः, यथोक्तं-मज्जं विसयकसाया निद्दा विकहा य पंचमी भणियासर्वप्रमादै रहिताः सर्वप्रमादरहिताः, अप्रमादवन्त इत्यर्थः, मुनयः साधवः क्षीणोपशान्तमोहाश्च इति क्षीणमोहा:-क्षपकनिर्ग्रन्थाः उपशान्तमोहा- उपशामकनिर्ग्रन्थाः, चशब्दादन्ये वाऽप्रमादिनः, ध्यातारः चिन्तकाः, धर्मध्यानस्येति सम्बन्धः, ध्यातार एव विशेष्यन्ते- ज्ञानधनाः ज्ञानवित्ताः, विपश्चित इत्यर्थः, निर्दिष्टाः, प्रतिपादितास्तीर्थकरगणधरैरिति गाथार्थः॥६३॥ उक्ता धर्मध्यानस्य ध्यातारः, साम्प्रतंशुक्लध्यानस्याप्याद्यभेदद्वयस्याविशेषेण एत एव यतो ध्यातार इत्यतो मा भूत्पुनरभिधेया भविष्यन्तीति लाघवार्थं चरमभेदद्वयस्य प्रसङ्गत एव तानेवाभिधित्सुराह एएच्चिय पुव्वाणं पुव्वधरा सुप्पसत्थसंघयणा / दोण्ह सजोगाजोगा सुकाण पराण केवलिणो॥सू० गा०६४॥ 0 मद्यं विषयाः कषाया निद्रा विकथा च पञ्चमी भणिता। // 10
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy