SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1064 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.1 ध्यानशतकम्। सू०गा० 57-59 धर्मध्यानस्य भावनादेशकालादि। जन्मादिजलं जन्म-प्रतीतम्, आदिशब्दाजरामरणपरिग्रहः, एतान्येवातिबहुत्वाज्जलमिव जलं यस्मिन् स तथाविधस्तं तथा / कषायपातालंकषायाः- पूर्वोक्तास्त एवागाधभवजननसाम्येन पातालमिव पातालंयस्मिन् स तथाविधस्तम्, तथा व्यसनशतश्वापदवन्तं व्यसनानि-दुःखानि द्यूतादीनि वा तच्छतान्येव पीडाहेतुत्वात् श्वापदानि तान्यस्य विद्यन्त इति तद्वन्तं मणं ति देशीशब्दो मत्वर्थीयः, उक्तं च मतुयत्थंमि मुणिजह आलं इल्लं मणं च मणुयं चेति, तहा मोहावर्तं मोहः- मोहनीयं कर्म तदेव तत्र विशिष्टभ्रमिजनकत्वादावर्तो यस्मिन् स तथाविधस्तम्, तथा महाभीमं अतिभयानकमिति गाथार्थः॥५६॥ किंच___ अण्णाणमारुएरियसंजोगविजोगवीइसंताणं / संसारसागरमणोरपारमसुहं विचिंतेजा ॥सू० गा०५७॥ अज्ञानं ज्ञानावरणकर्मोदयजनित आत्मपरिणामः स एव तत्प्रेरकत्वान्मारुतः- वायुस्तेनेरितः-प्रेरितः, कः?- संयोगवियोगवीचिसन्तानो यस्मिन् स तथाविधस्तम्, तत्र संयोगः- केनचित् सह सम्बन्धः वियोगः- तेनैव विप्रयोगः एतावेव। सन्ततप्रवृत्तत्वात् वीचयः-ऊर्मयस्तत्प्रवाहः-सन्तान इति भावना, संसरणं संसारः(स) सागर इवसंसारसागरस्तम्, किम्भूतं? अनोरपारं अनाद्यपर्यवसितं अशुभं अशोभनं विचिन्तयेत्, तस्य गुणरहितस्य जीवस्येति गाथार्थः॥५७॥ | तस्स य संतरणसहसम्मइंसणसुबंधणमणग्धं / णाणमयकण्णधारं चारित्तमयं महापोयं ॥सू० गा०५८॥ ___ तस्य च संसारसागरस्य संतरणसहं सन्तरणसमर्थम्, पोतमिति वक्ष्यति, किंविशिष्टं?- सम्यग्दर्शनमेव शोभनं बन्धनं यस्य स तथाविधस्तम्, अनघं अपापम्, ज्ञानं- प्रतीतं तन्मयः- तदात्मकः कर्णधार:- निर्यामकविशेषो यस्य यस्मिन् वा स तथाविधस्तम्, चारित्रं- प्रतीतं तदात्मकं महापोतं इति महाबोहित्थम्, क्रिया पूर्ववदिति गाथार्थः॥५८॥ संवरकयनिच्छिदं तवपवणाइद्धजइणतरवेगं / वेरग्गमग्गपडियं विसोत्तियावीइनिक्खोभं / सू० गा०५९॥ // 1
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy