________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1063 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, ४.१ध्यानशतकम्। सू०गा० 55-56 धर्मध्यानस्य भावनादेशकालादि। एसो भवणसमासो भवणवईणं वियाणेज्जा॥१॥आदिशब्दादसङ्खयेयव्यन्तरनगरपरिग्रहः, उक्तंच-हेटोवरिजोयणसयरहिए रयणाए जोयणसहस्से। पढमे वंतरियाणं भोमा नयरा असंखेज्जा // 1 // ततश्च क्षितयश्च वलयानि चेत्यादिद्वन्द्वः, एतेषां संस्थानंआकारविशेषलक्षणं विचिन्तयेदिति, तथा व्योमादिप्रतिष्ठानं इत्यत्र प्रतिष्ठितिः प्रतिष्ठानम्, भावे ल्युट्, व्योम- आकाशम्, आदिशब्दाद्वाय्वादिपरिग्रहः, व्योमादौ प्रतिष्ठानमस्येति व्योमादिप्रतिष्ठानम्, लोकस्थितिविधानमिति योगः, विधिः-विधानं प्रकार इत्यर्थः, लोकस्य स्थितिः 2, स्थितिः व्यवस्था मर्यादा इत्यनर्थान्तरम्, तद्विधानम्, किम्भूतं? - नियतं नित्यं शाश्वतम्, / क्रिया पूर्ववदिति गाथार्थः // 54 // किंच उवओगलक्खणमणाइनिहणमत्थंतरं सरीराओ।जीवमरूविं कारिंभोयं च सयस्स कम्मस्स ॥सू० गा०५५॥ उपयुज्यतेऽनेनेत्युपयोगः- साकारानाकारादिः, उक्तं च-स द्विविधोऽष्टचतुर्भेदः (तत्त्वार्थे अ० 2 सू०९) स एव लक्षणं यस्य स उपयोगलक्षणस्तम्, जीवमिति वक्ष्यति, तथा अनाद्यनिधनं अनाद्यपर्यवसितं, भवापवर्गप्रवाहापेक्षया नित्यमित्यर्थः, तथा अर्थान्तरं पृथग्भूतम्, कुतः?- शरीरात्, जातावेकवचनम्, शरीरेभ्यः- औदारिकादिभ्य इति, किमित्यत आह- जीवति जीविष्यति जीवितवान् वा जीव इति तम्, किम्भूतमित्यत आह- अरूपिणं अमूर्तमित्यर्थः, तथा कर्तारं निर्वर्तकम्, कर्मण इति गम्यते, तथा भोक्तारं उपभोक्तारम्, कस्य? स्वकर्मणः- आत्मीयस्य कर्मणः, ज्ञानावरणीयादेरिति गाथार्थः॥५५॥ तस्स यसकम्मजणियं जम्माइजलं कसायपायालं / वसणसयसावयमणं मोहावत्तं महाभीमं ।सू० गा०५६॥ तस्य च जीवस्य स्वकर्मजनितं आत्मीयकर्मनिर्वर्तितम्, कं?- संसारसागरमिति वक्ष्यति तम्, किम्भूतमित्यत आह- एष भवनसमासो भवनपतीनां(इति)विजानीयात् // 11 // अधस्तादुपरि योजनशतरहिते रत्नाया योजनसहस्रे / प्रथमे व्यन्तराणां भौमानि नगराण्यसंख्येयानि // 1 // & // 10