SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1062 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.1 ध्यानशतकम्। सू०गा०५४ धर्मध्यानस्य भावनादेशकालादि। आदरख्यापनादौ च पुनरुक्तदोषानुपपत्तेः, तथा चोक्तं-अनुवादादरवीप्साभृशार्थविनियोगहेत्वसूयासु / ईषत्सम्भ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम्॥१॥तथा हि नामादिभेदविहितं भेदतो नामादिभेदावस्थापितमित्यर्थः, उक्तं च- 'नामंठवणा दविए खित्ते काले तहेव भावे य / पज्जवलोगोय तहा अट्ठविहो लोगंमि (ग) निक्खेवो॥१॥' भावार्थश्चतुर्विंशतिस्तवविवरणादवसेयः, साम्प्रतं क्षेत्रलोकमधिकृत्याह- त्रिविधं त्रिप्रकारं अधोलोकभेदादि इति प्राकृतशैल्याऽधोलोकादिभेदम्, आदिशब्दात्तिर्यगूर्ध्वलोकपरिग्रह इति गाथार्थः // 53 // किं च- तस्मिन्नेव क्षेत्रलोके इदं चेदं च विचिन्तयेदिति प्रतिपादयन्नाह खिइवलयदीवसागरनरयविमाणभवणाइसंठाणं / वोमाइपइट्ठाणं निययं लोगठ्ठिइविहाणं॥सू० गा०५४॥ 9 क्षितिवलयद्वीपसागरनिरयविमानभवनादिसंस्थानं तत्र क्षितयः खलु धर्माद्या ईषत्प्राग्भारावसाना अष्टौ भूमयः परिगृह्यन्ते, वलयानि-घनोदधिघनवाततनुवातात्मकानि घर्मादिसप्तपृथिवीपरिक्षेपीण्येकविंशतिः, द्वीपा:- जम्बूद्वीपादयः स्वयम्भूरमणद्वीपान्ता असङ्खयेयाः, सागरा-लवणसागरादयः स्वयम्भूरमणसागरपर्यन्ता असङ्गयेया एव, निरयाः-सीमन्तकाद्या अप्रति-8 ष्ठानावसानाः सङ्खयेयाः, यत उक्तं-तीसा य पन्नवीसा पनरस दसेव सयसहस्साई। तिन्नेगं पंचूणं पंच य नरगा जहाकमसो॥१॥ विमानानि- ज्योतिष्कादिसम्बन्धीन्यनुत्तरविमानान्तान्यसङ्ख्येयानि, ज्योतिष्कविमानानामसंख्येयत्वात्, भवनानि- भवन-1 वास्यालयलक्षणानि असुरादिदशनिकायसम्बन्धीनि असंख्येयानि, उक्तं च- सत्तेव य कोडीओ हवंति बावत्तरि सयसहस्सा। नामस्थापनयोः द्रव्ये क्षेत्रे च काले तथैव भावे च / पर्यवलोकः तथाऽष्टविधो लोके निक्षेपः॥ 1 // त्रिंशत् पञ्चविंशतिश्च पञ्चदश दशैव शतसहस्राणि / त्रीणि एक पञ्चोनं पच च नरका यथाक्रमम् // 1 // 0 सप्तैव च कोट्यो भवन्ति द्वासप्ततिः शतसहस्राणि। // 1062 // RORRUAR
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy