SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1061 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.1 ध्यानशतकम्। सू०गा०५३ धर्मध्यानस्य भावनादेशकालादि। नामेवात्मीयानि, तथोत्पादस्थितिभङ्गादिपर्याया ये च द्रव्याणां धर्मास्तिकायादीनां तान् विचिन्तयेदिति, तत्रोत्पादादिपर्यायसिद्धिः उत्पादव्ययध्रौव्ययुक्तं सदिति (तत्त्वार्थे अ०५ सू० 29) वचनाद्, युक्तिः पुनरत्र घटमौलीसुवर्णार्थी, नाशोत्पत्तिस्थितिष्वयम्। शोकप्रमोदमाध्यस्थं, जनो याति सहेतुकम्॥१॥पयोव्रतो न दद्ध्यत्ति, न पयोऽत्ति दधिव्रतः। अगोरसवतो नोभे, तस्मात्तत्त्वं त्रयात्मकम् // 2 // ततश्च धर्मास्तिकायो विवक्षितसमयसम्बन्धरूपापेक्षयोत्पद्यते तदनन्तरातीतसमयसम्बन्धरूपापेक्षया तु विनश्यति। धर्मास्तिकायद्रव्यात्मना तु नित्य इति, उक्तं च-सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः / सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानात् ॥१॥आदिशब्दादगुरुलध्वादिपर्यायपरिग्रहः, चशब्दः समुच्चयार्थ इति गाथार्थः॥५२॥ किं च__ पंचत्थिकायमइयं लोगमणाइणिहणं जिणक्खायं / णामाइभेयविहियं तिविहमहोलोयभेयाई॥सू० गा०५३॥ पञ्चास्तिकायमयं लोकमनाद्यनिधनं जिनाख्यात मिति, क्रिया पूर्ववत्, तत्रास्तयः- प्रदेशास्तेषां काया अस्तिकायाः पञ्च च। ते अस्तिकायाश्चेति विग्रहः, एते च धर्मास्तिकायादयो गत्याधुपग्रहकरा ज्ञेया इति, उक्तं च- जीवानां पुद्गलानां च, गत्युपग्रहकारणम् / धर्मास्तिकायो ज्ञानस्य, दीपश्चक्षुष्मतो यथा // 1 // जीवानां पुद्गलानां च, स्थित्युपग्रहकारणम् / अधर्मः पुरुषस्येव, तिष्ठासोरवनिर्यथा ॥२॥जीवानां पुद्गलानांच, धर्माधर्मास्तिकाययोः / बदराणां घटो यद्वदाकाशमवकाशदम् ॥३॥ज्ञानात्मा सर्वभावज्ञो, भोक्ता कर्ता च कर्मणाम् / नानासंसारिमुक्ताख्यो, जीवः प्रोक्तो जिनागमे ॥४॥स्पर्शरसगन्धवर्णशब्दमूर्तस्वभावकाः / सङ्घातभेदनिष्पन्नाः पुद्गला जिनदेशिताः॥५॥तन्मयं-तदात्मकम्, लोक्यत इति लोकस्तम्, कालतः किम्भूतमित्यत आह- अनाद्यनिधनं अनाद्यपर्यवसितमित्यर्थः, अनेनेश्वरादिकृतव्यवच्छेदमाह, असावपि दर्शनभेदाच्चित्र एवेत्यत आह-जिनाख्यातं तीर्थकरप्रणीतम्, आह-जिनदेशितानित्यस्माजिनप्रणीताधिकारोऽनुवर्तत एव, ततश्चजिनाख्यातमित्यतिरिच्यते, न, अस्याऽऽदरख्यापनार्थत्वात्,
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy