SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1056 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, ४.१ध्यानशतकम्। सूगा० 48-49 धर्मध्यानस्य भावनादेशकालादि। धारणेनेत्यर्थः, तथा तद्विधाचार्यविरहतोऽपि तत्र तद्विधः- सम्यगविपरीततत्त्वप्रतिपादनकुशलः आचर्यतेऽसावित्याचार्यः सूत्रार्थावगमार्थं मुमुक्षुभिरासेव्यत इत्यर्थः, तद्विधश्चासावाचार्यश्च 2 तद्विरहतः- तदभावतश्च, चशब्दः अबोधे द्वितीयकारणसमुच्चयार्थः, अपिशब्दः क्वचिदुभयवस्तूपपत्तिसम्भावनार्थः, तथा ज्ञानावरणोदयेन च तत्र ज्ञानावरणं प्रसिद्धं तदुदयेन तत्काले तद्विपाकेन, चशब्दश्चतुर्थाबोधकारणसमुच्चयार्थः, ज्ञेयगहनत्वेन च तत्र ज्ञायत इति ज्ञेयं-धर्मास्तिकायादि तद्गहनत्वेन- गह्वरत्वेन, चशब्दोऽबोध एव तृतीयकारणसमुच्चयार्थः, तथा अत्राह- ननु ज्ञानावरणोदयादेव मतिदौर्बल्यं तथा तद्विधाचार्यविरहो ज्ञेयगहनाप्रतिपत्तिश्च, ततश्चतदभिधानेन युक्तममीषामभिधानमिति, न, तत्कार्यस्यैव संक्षेपविस्तरत उपाधिभेदेनाभिधानादिति गाथार्थः॥४७॥ तथा हेऊदाहरणासंभवे य सइ सुठ्ठजं न बुज्झेजा / सव्वण्णुमयमवितहं तहावितं चिंतए मइमं ॥सू० गा० 48 // तत्र हिनोति-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतु:-कारको व्यञ्जकश्च, उदाहरणं- चरितकल्पितभेदम्, हेतुश्चोदाहरणं च हेतूदाहरणे तयोरसम्भवः, कञ्चन पदार्थ प्रति हेतूदाहरणासम्भवात्, तस्मिँच, चशब्दः पञ्चमषष्ठकारणसमुच्चयार्थः, सति विद्यमाने, किं? - यद्वस्तुजातं न सुष्ठ बुद्ध्येत नातीवावगच्छेत् सर्वज्ञमतमवितथं तथापि तच्चिन्तयेन्मतिमा निति तत्र सर्वज्ञाःतीर्थकरास्तेषां मतं सर्वज्ञमतं- वचनम्, किं?-वितर्थ- अनृतं न वितथं- अवितथं सत्यमित्यर्थः, तथापि तदबोधकारणे सत्यनवगच्छन्नपि तत् मतं वस्तु वा चिन्तयेत् पर्यालोचयेत् मतिमान् बुद्धिमानिति गाथार्थः॥४८॥ किमित्येतदेवमित्यत आह अणुवकयपराणुग्गहपरायणा जंजिणा जगप्पवरा / जियरागदोसमोहा य णण्णहावादिणो तेणं / सू० गा० 49 // // 1056 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy