________________ | 4. चतुर्थ नियुक्ति भाष्य 4.1 ध्यान भाग-३ // 1052 // 44-45 श्रीआवश्यक यथा पुरुषः पुमान् कश्चित्, सूत्रादिकृतालम्बनः वाचनादिकृतालम्बन इत्यर्थः, तथा तेनैव प्रकारेण ध्यानवरं धर्मध्यानमित्यर्थः, समारोहतीति गाथार्थः॥४३॥गतमालम्बनद्वारम्, अधुना क्रमद्वारावसरः, तत्र लाघवार्थं धर्मस्य शुक्लस्य च(तं) प्रतिपाद-8 मध्ययनम् प्रतिक्रमणं, श्रीहारिक यन्नाहवृत्तियुतम् __ झाणप्पडिवत्तिकमो होइ मणोजोगनिग्गहाईओ। भवकाले केवलिणो सेसाण जहासमाहीए।सू० गा० 44 // शतकम्। सू०गा० __ ध्यानं- प्राग्निरूपितशब्दार्थं तस्य प्रतिपत्तिक्रम इति समासः, प्रतिपत्तिक्रमः- प्रतिपत्तिपरिपाट्यभिधीयते, स च भवति / मनोयोगनिग्रहादिः, तत्र प्रथमं मनयोगनिग्रहस्ततो वाग्योगनिग्रहस्ततः काययोगनिग्रह इति, किमयं सामान्येन सर्वथैवेत्थम्भूतः धर्मध्यानस्य भावनादेशक्रमो?, न, किन्तु भवकाले केवलिनः, अत्र भवकालशब्देन मोक्षगमनप्रत्यासन्नः अन्तर्मुहूर्तप्रमाण एव शैलेश्यवस्थान्तर्गतः कालादि। परिगृह्यते, केवलमस्यास्तीति केवली तस्य, शुक्लध्यान एवायंक्रमः, शेषस्यान्यस्य धर्मध्यानप्रतिपत्तुर्योगकालावाश्रित्य किं?- यथासमाधिने ति यथैव स्वास्थ्यं भवति तथैव प्रतिपत्तिरिति गाथार्थः॥४४॥गतं क्रमद्वारम्, इदानीं ध्यातव्यमुच्यते, तच्चतुर्भेदमाज्ञादिः, उक्तंच-आज्ञाऽपायविपाकसंस्थानविचयाय धर्म्य (तत्त्वार्थे अ०९सू० 37) मित्यादि, तत्राऽऽद्यभेदप्रतिपादनायाह___ सुनिउणमणाइणिहणं भूयहियं भूयभावणमहग्धं / अमियमजियं महत्थं महाणुभावं महाविसयं ॥सू० गा० 45 // सुष्ठु- अतीव निपुणा-कुशला सुनिपुणा ताम्, आज्ञामिति योगः, नैपुण्यं पुनः सूक्ष्मद्रव्याधुपदर्शकत्वात्तथा मत्यादिप्रति-॥१०५२॥ पादकत्वाच्च, उक्तं च- सुयनाणंमि नेउण्णं, केवले तयणंतरं। अप्पणो सेसगाणं च, जम्हा तं परिभावगं॥ 1 // इत्यादि, इत्थं 0 श्रुतज्ञाने नैपुण्यं केवले तदनन्तरम् / आत्मनः शेषकाणां च, यस्मात्तत् परिभावकम् (प्रकाशकम् ) // 1 //