SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ मध्ययनम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1051 // ४.१ध्यानशतकम्। सू०गा० 41-43 तो देसकालचेठानियमो झाणस्स नत्थि समयंमि / जोगाण समाहाणं जह होइ तहा (प) यइयव्वं ॥सू० गा० 41 // 4. चतुर्थयस्मादिति पूर्वगाथायामुक्तं तेन सहास्याभिसम्बन्धः, तस्माद्देशकालचेष्टानियमो ध्यानस्य नास्ति न विद्यते, क्व?- समये प्रतिक्रमणं, आगमे, किन्तु योगानां मनःप्रभृतीनां समाधानं पूर्वोक्तं यथा भवति तथा (प्र)यतितव्यं (प्र)यत्नः कार्य इत्यत्र नियम एवेति गाथार्थः॥४१॥गतमासनद्वारम्, अधुनाऽऽलम्बनद्वारावयवार्थप्रतिपादनायाह आलंबणाइवायणपुच्छणपरियट्टणाणुचिंताओ।सामाइयाइयाइंसद्धम्मावस्सयाईच ॥सू० गा० 42 // इह धर्मध्यानारोहणार्थमालम्ब्यन्त इत्यालम्बनानि वाचनाप्रश्नपरावर्तनानुचिन्ता इति तत्र वाचनं वाचना, विनेयाय निर्जरायै न धर्मध्यानस्य सूत्रादिदानमित्यर्थः,शङ्किते सूत्रादौ संशयापनोदाय गुरुप्रच्छनं प्रश्न इति, परावर्तनं तु पूर्वाधीतस्यैव सूत्रादेरविस्मरणनिर्जरा भावनादेश कालादि। निमित्तमभ्यासकरणमिति, अनुचिन्तनमनुचिन्ता मनसैवाविस्मरणादिनिमित्तं सूत्रानुस्मरणमित्यर्थः, वाचनाच प्रश्नश्चेत्यादि द्वन्द्वः, एतानि च श्रुतधर्मानुगतानि वर्तन्ते, तथा सामायिकादीनि, सद्धर्मावश्यकानि चेति, अमूनि तु चरणधर्मानुगतानि वर्तन्ते, सामायिकमादौ येषां तानि सामायिकादीनि, तत्र सामायिकं प्रतीतम्, आदिशब्दान्मुखवस्त्रिकाप्रत्युपेक्षणादिलक्षणसकलचक्रवालसामाचारीपरिग्रहो यावत् पुनरपि सामायिकमिति, एतान्येव विधिवदासेव्यमानानि सन्ति-शोभनानि सन्ति च तानि चारित्रधर्मावश्यकानि चेति विग्रहः, आवश्यकानि-नियमतः करणीयानि, चः समुच्चये इति गाथार्थः॥४२॥ साम्प्रतममीषामेवाऽऽलम्बनत्वे निबन्धनमाह 8 // 1051 // विसमंमि समारोहइ दढदव्वालंबणोजहा पुरिसो। सुत्ताइकयालंबो तह झाणवरंसमारुहइ / / सू० गा० 43 // विषमे निम्ने दुःसञ्चरे समारोहति सम्यगपरिक्लेशेनोवं याति, कः?- दृढं-बलवद्रव्यं रज्वाद्यालम्बनं यस्य स तथाविधः,
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy