SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1049 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, ४.१ध्यानशतकम्। सू०गा० 37-38 धर्मध्यानस्य भावनादेशकालादि। दिपरिग्रह इति, जनाकीर्णे- जनाकुले ग्राम एवोद्यानादौ वा, तथा शून्ये तस्मिन्नेवारण्ये वा कान्तारे वेति, वा विकल्पे, न विशेषो-न भेदः, सर्वत्र तुल्यभावत्वात्परिणतत्वात्तेषामिति गाथार्थः / / 36 // यतश्चैवं जो (तो) जत्थ समाहाणं होज मणोवयणकायजोगाणं / भूओवरोहरहिओसो देसो झायमाणस्स ॥सू० गा०३७॥ यत एव तदुक्तं ततः तस्मात्कारणाद्यत्र ग्रामादौ स्थाने समाधानं स्वास्थ्यं भवति जायते, केषामित्यत आह-मनोवाक्काययोगानां / प्राग्निरूपितस्वरूपाणामिति, आह- मनोयोगसमाधानमस्तु, वाक्काययोगसमाधानं तत्र क्वोपयुज्यते?, न हि तन्मयं ध्यान भवति, अत्रोच्यते, तत्समाधानं तावन्मनोयोगोपकारकम्, ध्यानमपि च तदात्मकं भवत्येव , यथोक्तं- एवंविहा गिरा मे वत्तव्वा एरिसी न वत्तव्वा / इय वेयालियवक्कस्स भासओ वाइगं झाणं॥१॥तथा- सुसमाहियकरपायस्स अकज्जे कारणमि जयणाए। किरियाकरणं जंतं काइयझाणं भवे जइणो॥२॥न चात्र समाधानमात्रकारित्वमेव गृह्यते, किन्तु भूतोपरोधरहितः, तत्र भूतानिपृथिव्यादीनि उपरोधः- तत्सङ्गट्टनादिलक्षणः तेन रहितः- परित्यक्तो यः 'एकग्रहणे तज्जातीयग्रहणाद्' अनृतादत्तादानमैथुनपरिग्रहाद्युपरोधरहितश्च स देशो ध्यायतः चिन्तयतः, उचित इति शेषः, अयं गाथार्थः॥३७॥गतं देशद्वारम्, अधुना कालद्वारमभिधित्सुराह कालोऽवि सोच्चिय जहिं जोगसमाहाणमुत्तमं लहइ। न उदिवसनिसावेलाइनियमणं झाइणो भणियं / / सू० गा०३८॥ कलनं काल: कलासमूहो वा कालः, सचार्द्धतृतीयेषु द्वीपसमुद्रेषुचन्द्रसूर्यगतिक्रियोपलक्षितो दिवसादिरवसेयः, अपिशब्दो एवंविधाः गीर्मया वक्तव्येशी न वक्तव्या। इति वैकालिकवाक्यस्य भाषमाणस्य वाचिकं ध्यानम् // 1 // सुसमाहितकरपादस्याकार्ये कारणे यतनया। क्रियाकरणं यत्तत्कायिकं भवेत् यतेः ध्यानम् // 2 // // 1042 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy