________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् ४.१ध्यानशतकम्। भाग-३ // 1047 // चरन्त्यनिन्दितमनेनेति चरित्रं-क्षयोपशमरूपं तस्य भावश्चारित्रम्, एतदुक्तं भवति- इहान्यजन्मोपात्ताष्टविधकर्मसञ्चयापचयाय / 4. चतुर्थचरणभावश्चारित्रमिति, सर्वसावद्ययोगविनिवृत्तिरूपा क्रिया इत्यर्थः, तस्य भावना- अभ्यासश्चारित्रभावनेति गाथार्थः / / मध्ययनम् प्रतिक्रमणं, 36 // उक्ता चारित्रभावना, साम्प्रतं वैराग्यभावनास्वरूपगुणदर्शनार्थमाहB सुविदियजगस्सभावो निस्संगो निभओ निरासो य / वेरग्गभावियमणो झाणंमि सुनिच्चिलो होइ।सू० गा० 34 // सूगा० सुष्ठ- अतीव विदितः- ज्ञातो जगतः- चराचरस्य, यथोक्तं- जगन्ति जङ्गमान्याहुर्जगद् ज्ञेयं चराचरम् स्वो भावः स्वभावः, |34-35 जन्म मरणाय नियतं बन्धुर्दुःखाय धनमनिर्वृतये। तन्नास्ति यन्न विपदे तथापि लोको निरालोकः॥१॥इत्यादिलक्षणो येन स तथा- धर्मध्यानस्य भावनादेशविधः, कदाचिदेवम्भूतोऽपि कर्मपरिणतिवशात्ससङ्गो भवत्यत आह- निःसङ्गः विषयजस्नेहसङ्गरहितः, एवम्भूतोऽपि च कालादि। कदाचित्सभयो भवत्यत आह-निर्भयः इहलोकादिसप्तभयविप्रमुक्तः, कदाचिदेवम्भूतोऽपि विशिष्टपरिणत्यभावात्परलोकमधिकृत्य साशंसो भवत्यत आह- निराशंसश्च इहपरलोकाशंसाविप्रमुक्तः, चशब्दात्तथाविधक्रोधादिरहितश्च, य एवंविधो वैराग्यभावितमना भवति स खल्वज्ञानाद्युपद्रवरहितत्वाद् ध्याने सुनिश्चलो भवतीति गाथार्थः॥३४॥ उक्ता वैराग्यभावना। मूलद्वारगाथाद्वये ध्यानस्य भावना इति व्याख्यातम्, अधुना देशद्वारव्याचिख्यासयाऽऽह निच्चं चिय जुवइपसूनपुंसगकुसीलवज्जियंजइणो। ठाणं वियणं भणियं विसेसओझाणकालंमि ॥सू० गा० 35 // नित्यमेव सर्वकालमेव, न केवलं ध्यानकाल इति, किं?- युवतिपशुनपुंसककुशीलपरिवर्जितं यतेः स्थानं विजनं भणित मिति,॥१०४७ / / तत्र युवतिशब्देन मनुष्यस्त्री देवी च परिगृह्यते, पशुशब्देन तु तिर्यस्त्रीति नपुंसकं- प्रतीतं कुत्सितं- निन्दितं शीलं- वृत्तं