________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1045 // फुवकयब्भासो भावणाहि झाणस्स जोग्गयमुवेइ / ताओ य नाणदंसणचरित्तवेरग्गजणियाओ॥सू० गा० 30 / / 4. चतुर्थपूर्व- ध्यानात् प्रथमं कृतः-निर्वर्तितोऽभ्यासः- आसेवनालक्षणो येन स तथाविधः, काभिः पूर्वकृताभ्यासः?- भावनाभिः मध्ययनम् प्रतिक्रमणं, करणभूताभिः भावनासुवा- भावनाविषये पश्चाद्ध्यानस्य अधिकृतस्य योग्यतां 'अनुरूपतां' उपैति यातीत्यर्थः, ताश्च भावना ४.१ध्यानज्ञानदर्शनचारित्रवैराग्यनियता वर्तन्ते, नियता:- परिच्छिन्नाः पाठान्तरं वा जनिता इति गाथार्थः॥३०॥साम्प्रतं ज्ञानभावना- शतकम्। | सू०गा० स्वरूपगुणदर्शनायेदमाह | 30-32 णाणे णिञ्चब्भासो कुणइमणोधारणं विसुद्धिं च / नाणगुणमुणियसारो तो झाइ सुनिच्चलमईओ।सू० गा०३१॥ धर्मध्यानस्य ज्ञाने श्रुतज्ञाने, नित्यं-सदा अभ्यासः- आसेवनालक्षणः करोति निर्वर्तयति, किं?- मनसः- अन्तःकरणस्य, चेतस इत्यर्थः, भावनादेश कालादि। धारणं- अशुभव्यापारनिरोधेनावस्थानमिति भावना, तथा विशुद्धिं च तत्र विशोधनं विशुद्धिः, सूत्रार्थयोरिति गम्यते, तां, चशब्दाद्भवनिर्वेदं च, एवं ज्ञानगुणमुणितसार इति ज्ञानेन गुणानां- जीवाजीवाश्रितानां गुणपर्यायवत् द्रव्य मिति (तत्त्वा० अ० सू०३७) वचनात् पर्यायाणां च तदविनाभाविनां मुणितः- ज्ञातः सार:- परमार्थो येन स तथोच्यते, ज्ञानगुणेन वा-8 ज्ञानमाहात्म्येनेति भावः ज्ञातः सारो येन, विश्वस्येति गम्यते, स तथाविधः, ततश्च पश्चाद् ध्यायति चिन्तयति, किंविशिष्टः सन्?- सुष्ठ- अतिशयेन निश्चला-निष्प्रकम्पा सम्यग्ज्ञानतोऽन्यथाप्रवृत्तिकम्परहितेति भावः मतिः- बुद्धिर्यस्य स तथाविध इति गाथार्थः।। 31 // उक्ता ज्ञानभावना, साम्प्रतं दर्शनभावनास्वरूपगुणदर्शनार्थमिदमाह संकाइदोसरहिओ पसमथेज्जाइगुणगणोवेओ। होइ असंमूढमणो दंसणसुद्धीऍझाणंमि ॥सू० गा०३२।। शङ्कादिदोषरहितः शङ्कन-शङ्का, आदिशब्दात् काङ्गादिपरिग्रहः, उक्तं च-शङ्काकासाविचिकित्साऽन्यदृष्टिप्रशंसापरपाषण्ड // 1045 //