SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1044 // ताभ्यामपि तीव्रमुपयुक्तस्येति गाथार्थः / / किंच___ परवसणं अहिनंदइ निरवेक्खो निद्दओ निरणुतावो। हरिसिज्जइ कयपावो रोद्दज्झाणोवगयचित्तो॥सू० गा०२७॥ इहाऽऽत्मव्यतिरिक्तो योऽन्यः स परस्तस्य व्यसनं- आपत् परव्यसनं तद् अभिनन्दति अतिक्लिष्टचित्तत्वाद्बहु मन्यत इत्यर्थः, शोभनमिदं यदेतदित्थं संवृत्तमिति, तथा निरपेक्ष इहान्यभविकापायभयरहितः, तथा निर्गतदयो निर्दयः, परानुकम्पाशून्य इत्यर्थः, तथा निर्गतानुतापो निरनुतापः, पश्चात्तापरहित इति भावः, तथा किंच- हृष्यते तुष्यति कृतपापः निर्वर्तितपापः सिंहमारकवत्, क इत्यत आह- रौद्रध्यानोपगचित्त इति, अमूनि च लिङ्गानि वर्तन्त इति गाथार्थः॥२७॥ उक्तं रौद्रध्यानम्, साम्प्रतं धर्मध्यानावसरः, तत्र तदभिधित्सयैवादाविदं द्वारगाथाद्वयमाह झाणस्स भावणाओ देसं कालं तहाऽऽसणविसेसं / आलंबणं कमं झाइयव्वयं जे य झायारो॥सू० गा०२८॥ तत्तोऽणुप्पेहाओलेस्सा लिंगंफलंच नाऊणं / धम्मं झाइज्ज मुणी तग्गयजोगो तओ सुक्कं। सू० गा०२९॥ ___ ध्यानस्य प्राग्निरूपितशब्दार्थस्य, किं?- भावना ज्ञानाद्याः, ज्ञात्वेति योगः, किंच-देशं तदुचितम्, कालं तथा आसनविशेष तदुचितमिति, आलम्बनं वाचनादि, क्रम मनोनिरोधादि, तथा ध्यातव्यं ध्येयमाज्ञादि, तथा ये च ध्यातारः अप्रमादादियुक्ताः, ततः अनुप्रेक्षा ध्यानोपरमकालभाविन्योऽनित्यत्वाद्यालोचनारूपाः, तथा लेश्याः शुद्धा एव, तथा लिङ्गं श्रद्धानादि, तथा फलं सुरलोकादि, चशब्दः स्वगतानेकभेदप्रदर्शनपरः, एतद् ज्ञात्वा, किं?- धर्म्य इति धर्मध्यानं ध्यायेन्मुनिरिति, तत्कृतयोगः धर्मध्यानकृताभ्यासः, ततः पश्चात् शुक्लध्यानमिति गाथाद्वयसमासार्थः॥२८-२९॥व्यासार्थं तु प्रतिद्वारं ग्रन्थकारः स्वयमेव वक्ष्यति, तत्राऽऽद्यद्वारावयवार्थप्रतिपादनायाह 4. चतुर्थमध्ययनम् प्रतिक्रमणं, | 4.1 ध्यानशतकम्। सूगा०२७ | रौद्रस्य भेदाः, स्वामिनो, लेश्या| लिङ्गानि च। सू०गा० | 28-29 धर्मध्यानस्य भावनादेशकालादि। // 1044 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy