SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ / / 1043 // 23 // अधुनेदं यथाभूतस्य भवति यवर्द्धनं चेदमिति तदेतदभिधातुकाम आह एयंचउब्विहं रागदोसमोहाउलस्स जीवस्स / रोद्दज्झाणं संसारवद्धणं नरयगइमूलं / / सू० गा०२४॥ एतद् अनन्तरोक्तं चतुर्विधं चतुष्प्रकारंरागद्वेषमोहाङ्कितस्य आकुलस्य वेति पाठान्तरम्, कस्य?- जीवस्य आत्मनः, किं?रौद्रध्यानमिति, इयमत्र चतुष्टयस्यापि क्रिया, किंविशिष्टमिदमित्यत आह- संसारवर्द्धनं ओघतः नरकगतिमूलं विशेषत इति गाथार्थः // 24 // साम्प्रतं रौद्रध्यायिनो लेश्याः प्रतिपाद्यन्ते कावोयनीलकाला लेसाओ तिव्वसंकिलिट्ठाओ।रोद्दज्झाणोवगयस्स कम्मपरिणामजणियाओ।सू० गा०२५॥ पूर्ववद् व्याख्येया, एतावास्तु विशेष:- तीव्रसंक्लिष्टा:- अतिसंक्लिष्टा एता इति, आह-कथं पुनः रौद्रध्यायी ज्ञायत इति?, उच्यते, लिङ्गेभ्यः, तान्येवोपदर्शयति लिंगाइँतस्स उस्सण्णबहुलनाणाविहामरणदोसा। तेसिं चिय हिंसाइसु बाहिरकरणोवउत्तस्स ॥सू० गा०२६॥ लिङ्गानि चिह्नानि तस्य रौद्रध्यायिनः, उत्सन्नबहुलनानाविधामरणदोषा इत्यत्र दोषशब्दः प्रत्येकमभिसम्बध्यते, उत्सन्नदोषः बहुलदोषः नानाविधदोषः आमरणदोषश्चेति, तत्र हिंसानुबन्ध्यादीनामन्यतरस्मिन् प्रवर्तमान उत्सन्नं- अनुपरतं बाहुल्येन प्रवर्तते इत्युत्सन्नदोषः, सर्वेष्वपिचैवमेव प्रवर्तत इति बहुलदोषः, नानाविधेषु त्वक्त्वक्षणनयनोत्खननादिषु हिंसाधुपायेष्वसकृदप्येवं प्रवर्तत इति नानाविधदोषः, महदापगतोऽपिस्वतः महदापद्गतेऽपिच परे आमरणादसजातानुतापः कालसौकरिकवद् अपि त्वसमाप्तानुतापानुशयपर इत्यामरणदोष इति तेष्वेव हिंसादिषु,आदिशब्दान्मृषावादादिपरिग्रहः, ततश्च तेष्वेव हिंसानुबन्ध्यादिषु चतुर्भेदेषु, किं?- बाह्यकरणोपयुक्तस्य सत उत्सन्नादिदोषलिङ्गानीति, बाह्यकरणशब्देनेह वाक्कायौ गृह्येते, ततश्च 4. चतुर्थमध्ययनम् प्रतिक्रमणं, ४.१ध्यानशतकम्। सू०गा० 24-26 रौद्रस्य भेदाः, स्वामिनो, लेश्यालिङ्गानि च। // 1043 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy