SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1042 // 4.1 ध्यान मिति, तत्र परलोकापाया:- नरकगमनादयस्तन्निरपेक्षमिति गाथार्थः॥२१॥उक्तस्तृतीयो भेदः, साम्प्रतं चतुर्थं भेदमुपदर्शय- | 4. चतुर्थनाह मध्ययनम् प्रतिक्रमणं, सद्दाइविसयसाहणधणसारक्खणपरायणमणिटुं। सव्वाभिसंकणपरोवघायकलुसाउलं चित्तं / / सू० गा०२२॥ शब्दादयश्च ते विषयाश्चशब्दादिविषयास्तेषांसाधनं-कारणं शब्दादिविषयसाधनंच (तच्च) तद्धनंच शब्दादिविषयसाधनधनं शतकम्। तत्संरक्षणे- तत्परिपालने परायणं- उद्युक्तमिति विग्रहः, तथाऽनिष्ट-सतामनभिलषणीयमित्यर्थः, इदमेव विशेष्यते-सर्वेषामभि-8 सूगा० 22-23 शङ्कनेनाकुलमिति सम्बध्यते न विद्मः कः किं करिष्यतीत्यादिलक्षणेन, तस्मात्सर्वेषां यथाशक्त्योपघात एव श्रेयानित्येवं. रौद्रस्य भेदाः, परोपघातेन च, तथा कलुषयन्त्यात्मानमिति कलुषा:- कषायास्तैराकुलं- व्याप्तं यत् तत् तथोच्यते चित्तं- अन्तःकरणम्, स्वामिनो, लेश्याप्रकरणाद्रौद्रध्यानमिति गम्यते, इह च शब्दादिविषयसाधनं धनविशेषणं किल श्रावकस्य चैत्यधनसंरक्षणे न रौद्रध्यानमिति लिङ्गानिच। ज्ञापनार्थमिति गाथार्थः // 22 // साम्प्रतं विशेषणाभिधानगर्भमुपसंहरन्नाहB इय करणकारणाणुमइविसयमणुचिंतणंचउन्भेयं / अविरयदेसासंजयजणमणसंसेवियमहण्णं ॥सू० गा०२३॥ इय एवं करणं स्वयमेव कारणमन्यैः कृतानुमोदनमनुमतिः करणं च कारणं चानुमतिश्च करणकारणानुमतयः एता एव विषयः- गोचरो यस्य तत्करणकारणानुमतिविषयम्, किमिदमित्यत आह- अनुचिन्तनं पर्यालोचनमित्यर्थः, चतुर्भेदं इति I हिंसानुबन्ध्यादि चतुष्प्रकारम्, रौद्रध्यानमिति गम्यते, अधुनेदमेव स्वामिद्वारेण निरूपयति- अविरताः- सम्यग्दृष्टयः, इतरे // 1042 // च देशासंयताः- श्रावकाः, अनेन सर्वसंयतव्यवच्छेदमाह, अविरतदेशासंयता एव जनाः 2 तेषां मनांसि-चित्तानि तैः संसेवितम्, सञ्चिन्तितमित्यर्थः, मनोग्रहणमित्यत्र ध्यानचिन्तायां प्रधानाङ्गख्यापनार्थम्, अधन्य मित्यश्रेयस्करं पापं निन्द्यमिति गाथार्थः॥
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy