SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1041 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, ४.१ध्यानशतकम्। सूगा०२१ रौद्रस्य भेदाः, स्वामिनो, लेश्यालिङ्गानिच। पिशुनासभ्यासद्भूतभूतघातादिवचनप्रणिधान मित्यत्रानिष्टस्य सूचकं पिशुनं पिशुनमनिष्टसूचकं पिशुनं सूचकं विदुरिति वचनात्, सभायां साधु सभ्यं न सभ्यमसभ्यं- जकारमकारादि न सद्भूतमसद्भूतमनृतमित्यर्थः, तच्च व्यवहारनयदर्शनेनोपाधिभेदतस्त्रिधा, तद्यथा- अभूतोद्धावनं भूतनिह्नवोऽर्थान्तराभिधानंचेति, तत्राभूतोद्भावनं यथासर्वगतोऽयमात्मेत्यादि, भूतनिह्नवस्तु नास्त्येवात्मेत्यादि, गामश्वमित्यादिब्रुवतोऽर्थान्तराभिधानमिति, भूतानां- सत्त्वानामुपघातो यस्मिन् तद्भूतोपघातम्, छिद्धि भिन्द्धि व्यापादय इत्यादि, आदिशब्दः प्रतिभेदं स्वगतानेकभेदप्रर्शनार्थः, यथापिशुनमनेकधाऽनिष्टसूचकमित्यादि, तत्र पिशुनादिवचनेष्वप्रवर्तमानस्यापि प्रवृत्तिं प्रति प्रणिधानं- दृढाध्यवसानलक्षणम्, रौद्रध्यानमिति प्रकरणाद्गम्यते, किंविशिष्टस्य सत इत्यत आह-माया-निकृतिः साऽस्यास्तीति मायावी तस्य मायाविनो वणिजादेः, तथा अतिसन्धानपरस्य परवञ्चनाप्रवृत्तस्य, अनेनाशेषेष्वपि प्रवृत्तिमप्या(स्या)ह, तथा प्रच्छन्नपापस्य कूटप्रयोगकारिणस्तस्यैव, अथवा धिग्जातिककुतीर्थिकादेरसद्भूतगुणं गुणवन्तमात्मानं ख्यापयतः, तथाहि-गुणरहितमप्यात्मानं यो गुणवन्तं ख्यापयति न तस्मादपरः प्रच्छन्नपापोऽस्तीति गाथार्थः / / 20 // उक्तो द्वितीयो भेदः, साम्प्रतं तृतीयमुपदर्शयति तह तिव्वकोहलोहाउलस्स भूओवघायणमणज्जं / परकवहरणचित्तं परलोयावायनिरवेक्खं ॥सू० गा०२१॥ तथाशब्दो दृढाध्यवसायप्रकारसादृश्योपदर्शनार्थः, तीव्रौ- उत्कटौ तौ क्रोधलोभौ च 2 ताभ्यामाकुल:- अभिभूतस्तस्य, जन्तोरिति गम्यते, किं?- भूतोपहननमनार्य मिति हन्यतेऽनेनेति हननं उप-सामीप्येन हननमुपहननं भूतानामुपहननं भूतोपहननम्, आराद्यातं सर्वहेयधर्मेभ्य इत्यार्य नाऽऽर्यमनार्यम्, किं तदेवंविधमित्यत आह- परद्रव्यहरणचित्तम्, रौद्रध्यानमिति गम्यते, परेषां द्रव्यं 2 सचित्तादि तद्विषयं हरणचित्तं 2 परद्रव्यहरणचित्तम्, तदेव विशेष्यते-किम्भूतं तदित्यत आह-परलोकापायनिरपेक्ष // 1041 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy