SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1040 // एकद्व्याधणुव्रतधरभेदाः श्रावकाः प्रमादपरा:- प्रमादनिष्टाश्च ते संयताश्च 2 ताननुगच्छतीति विग्रहः, नैवाप्रमत्तसंयतानिति 4. चतुर्थभावः, इदं च स्वरूपतः सर्वप्रमादमूलं वर्तते, यतश्चैवमतो वर्जयितव्यं परित्यजनीयम्, केन?- यतिजनेन साधुलोकेन, मध्ययनम् प्रतिक्रमणं, उपलक्षणत्वात् श्रावकजनेन, परित्यागार्हत्वादेवास्येति गाथार्थः॥१८॥उक्तमार्तध्यानम्, साम्प्रतं रौद्रध्यानावसरः, तदपि 4.1 ध्यानचतुर्विधमेव, तद्यथा-हिंसानुबन्धि मृषानुबन्धि स्तेयानुबन्धि विषयसंरक्षणानुबन्धि च, उक्तं चोमास्वातिवाचकेन- शतकम्। सू०गा० हिंसाऽनृतस्तेयविषयसंरक्षणेभ्यो रौद्र मित्यादि (तत्त्वार्थे अ०९-सू०३६)॥ तत्राऽऽद्यभेदप्रतिपादनायाह 19-20 सत्तवहवेहबंधणडहणंकणमारणाइपणिहाणं / अइकोहग्गहघत्थं निग्घिणमणसोऽहमविवागं॥सू० गा०१९ / / रौद्रस्य भेदाः, B सत्त्वा- एकेन्द्रियादयःतेषां वधवेधबन्धनदहनाङ्कनमारणादिप्रणिधानं तत्र वधः- ताडनं करकशलतादिभिः वेधस्तु स्वामिनो, लेश्यानासिकादिवेधन कीलिकादिभिः बन्धनं-संयमनं रज्जुनिगडादिभिः दहनं-प्रतीतमुल्मुकादिभिः अङ्कनं-लाञ्छनं श्वशृगाल- लिङ्गानिच। चरणादिभिः मारणं- प्राणवियोजनमसिशक्तिकुन्तादिभिः, आदिशब्दादागाढपरितापनपाटनादिपरिग्रहः, एतेषु प्रणिधानंअकुर्वतोऽपिकरणं प्रति दृढाध्यवसानमित्यर्थः, प्रकरणाद्रौद्रध्यानमिति गम्यते, किंविशिष्टं प्रणिधानं?- अतिक्रोधग्रहग्रस्त अतीवोत्कटो यः क्रोधः- रोषः स एवापायहेतुत्वादह इव ग्रहस्तेन ग्रस्तं- अभिभूतम्, क्रोधग्रहणाच्च मानादयो गृह्यन्ते, किंविशिष्टस्य सत इदमित्यत आह- निघृणमनसः निघृणं-निर्गतदयं मनः- चित्तमन्तःकरणं यस्य स निघृणमनास्तस्य, तदेव विशेष्यते- अधमविपाक मिति अधमः- जघन्यो नरकादिप्राप्तिलक्षणो विपाकः- परिणामो यस्य तत्तथाविधमिति गाथार्थः॥ // 8 // 1040 // 19 // उक्तः प्रथमो भेदः,साम्प्रतं द्वितीयमभिधित्सुराह पिसुणासन्भासब्भूयभूयघायाइवयणपणिहाणं / मायाविणोऽइसंधणपरस्स पच्छन्नपावस्स ॥सू० गा०२०॥
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy