________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1039 // | वियोगवेदनानिमित्तानि, तत्रेष्टवियोगनिमित्तानि तथाऽनिष्टावियोगनिमित्तानि तथा वेदनानिमित्तानि चेति गाथार्थः // 15 // 4. चतुर्थकिं चान्यत् मध्ययनम् प्रतिक्रमणं, निंदइय नियकयाइं पसंसइ सविम्हओ विभूईओ। पत्थेइ तासु रज्जइ तयज्जणपरायणो होइ ।।सू० गा० 16 // 4.1 ध्याननिन्दति च कुत्सति च निजकृतानि आत्मकृतानि अल्पफलविफलानि कर्मशिल्पकलावाणिज्यादीन्येतद्गम्यते, तथा प्रशंसति / शतकम्। सूगा० स्तौति बहुमन्यते सविस्मयः साश्चर्यः विभूतीः परसम्पद इत्यर्थः, तथा प्रार्थयते अभिलषति परविभूतीरिति, तासु रज्यते तास्विति |16-18 प्राप्तासु विभूतिषु रागंगच्छति, तथा तदर्जनपरायणो भवति तासां-विभूतीनामर्जने- उपादाने परायण- उद्युक्तः तदर्जनपरायण आर्तइति, ततश्चैवम्भूतो भवति, असावप्यार्तध्यायीति गाथार्थः॥१६॥ किंच ध्यानभेदाः। सद्दाइविसयगिद्धो सद्धम्मपरम्मुहोपमायपरो। जिणमयमणवेक्खंतो वट्टइ अट्टमि झाणंमि ॥सू० गा० 17 // शब्दादयश्च ते विषयाश्च तेषु गृद्धो- मूछितः काङ्गावानित्यर्थः, तथा सद्धर्मपराङ्मुखः प्रमादपरः, तत्र दुर्गतौ प्रपतन्तमात्मानं न Bधारयतीति धर्मः सँश्चासौ धर्मश्च सद्धर्म:-क्षान्त्यादिकश्चरणधर्मो गृह्यते ततः पराङ्मखः, प्रमादपर: मद्यादिप्रमादासक्तः, जिनमतमनपेक्षमाणो वर्तते आर्तध्याने इति तत्र जिना:- तीर्थकरास्तेषां मतं- आगमरूपं प्रवचनमित्यर्थः तदनपेक्षमाणः- तन्निरपेक्ष इत्यर्थः, किं? वर्त्तते आर्त्तध्याने इति गाथार्थः॥ 17 // साम्प्रतमिदमार्तध्यानं सम्भवमधिकृत्य यदनुगतं यदनह वर्तते तदेतदभिधित्सुराह तदविरयदेसविरया पमायपरसंजयाणुगंझाणं / सव्वप्पमायमूलं वजेयव्वं जइजणेणं ॥सू० गा०१८॥ तद् आर्तध्यानमिति योगः, अविरतदेशविरतप्रमादपरसंयतानुग मिति तत्राविरता- मिथ्यादृष्टयः सम्यग्दृष्टयश्च देशविरताः // 1039 //