SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् 4. चतुर्थमध्ययनम् प्रतिक्रमणं, ४.१ध्यानशतकम्। | सू०गा० 13-15 आर्त्तध्यानभेदाः। भाग-३ // 1038 // व्याचक्षते, नच तदत्यन्तसुन्दरम्, प्रथमतृतीयपक्षद्वये सम्यगाशङ्काया एवानुपपत्तेरिति ॥आह- उक्तं भवताऽऽर्तध्यानं संसारवर्द्धनमिति, तत्कथं?,उच्यते-बीजत्वात्, बीजत्वमेव दर्शयन्नाह रागो दोसो मोहो यजेण संसारहेयवो भणिया। अटॅमि य ते तिण्णिवितोतं संसारतरुबीयं ॥सू० गा०१३॥ रागो द्वेषो मोहश्च येन कारणेन संसारहेतवः संसारकारणानि भणिता उक्ताः परममुनिभिरिति गम्यते, आर्ते च आर्तध्याने च ते त्रयोऽपि रागादयः संभवन्ति, यत एवं ततस्तत् संसारतरुबीजं भववृक्षकारणमित्यर्थः / आह- यद्येवमोघत एव संसारतरुबीज ततश्च तिर्यग्गतिमूलमिति किमर्थमभिधीयते?, उच्यते, तिर्यग्गतिगमननिबन्धनत्वेनैव संसारतरुबीजमिति, अन्ये तुव्याचक्षतेतिर्यग्गतावेव प्रभूतसत्त्वसम्भवात् स्थितिबहुत्वाच्च संसारोपचार इति गाथार्थः॥१३॥इदानीमार्त्तध्यायिनो लेश्याः प्रतिपाद्यन्ते कावोयनीलकालालेस्साओणाइसंकिलिट्ठाओ। अट्टज्झाणोवगयस्स कम्मपरिणामजणिआओ॥सू० गा०१४॥ कापोतनीलकृष्णलेश्याः, किम्भूताः?- नातिसंक्लिष्टा रौद्रध्यानलेश्यापेक्षया नातीवाशुभानुभावा भवन्तीति क्रिया, कस्येत्यत आह- आर्तध्यानोपगतस्य, जन्तोरिति गम्यते, किंनिबन्धना एता इत्यत आह- कर्मपरिणामजनिताः, तत्र-'कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः / स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते // 1 // एताः कर्मोदयायत्ता इति गाथार्थः॥१४॥ आह- कथं पुनरोघत एवाऽऽर्तध्याता ज्ञायत इति?, उच्यते लिङ्गेभ्यः, तान्येवोपदर्शयन्नाह तस्सऽक्वंदणसोयणपरिदेवणताडणाई लिंगाई। इट्ठाणिट्ठविओगाविओगवियणानिमित्ताई।सू० गा०१५॥ ___ तस्य आर्तध्यायिनः आक्रन्दनादीनि लिङ्गानि, तत्राऽऽक्रन्दनं- महता शब्देन विरवणम्,शोचनं त्वश्रुपरिपूर्णनयनस्य दैन्यं परिदेवनं- पुनः 2 क्लिष्टभाषणं ताडनं- उरःशिरःकुट्टनकेशलुञ्चनादि, एतानि लिङ्गानि चिह्नानि, अमूनि च इष्टानिष्टवियोगा // 1038 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy