SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1037 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, ४.१ध्यानशतकम्। सू०गा०१२ आर्त्तध्यानभेदाः। कुणओवपसत्थालंबणस्स पडियारमप्पसावजं / तवसंजमपडियारंच सेवओ धम्ममणियाणं ॥सू० गा० 12 // कुर्वतो वा, कस्य?- प्रशस्तं- ज्ञानाद्युपकारकम्, आलम्ब्यत इत्यालम्बनं- प्रवृत्तिनिमित्तं शुभमध्यवसानमित्यर्थः, उक्तं च- काहं अछित्तिं अदुवा अहीहं, तवोवहाणेसु य उज्जमिस्सं। गणं च णीती अणुसारवेस्सं, सालंबसेवी समुवेइ मोक्खं // 1 // इत्यादि, यस्यासौ प्रशस्तालम्बनस्तस्य, किं कुर्वत इत्यत आह- प्रतीकारं चिकित्सालक्षणम्, किंविशिष्टं?- अल्पसावा अवयं-पापं सहावद्येन सावद्यम्, अल्पशब्दोऽभाववचनः स्तोकवचनो वा, अल्पं सावधं यस्मिन्नसावल्पसावधस्तम्, धर्म्यमनिदानमेवेति योगः, कुतः?- निर्दोषत्वात्, निर्दोषत्वं च वचनप्रामाण्याद्, उक्तं च-गीयत्थो जयणाए कडजोगी कारणमि निद्दोसो त्तीत्याद्यागमस्योत्सर्गापवादरूपत्वाद्, अन्यथा परलोकस्य साधयितुमशक्यत्वात् , साधु चैतदिति, तथा तपः संयमप्रतिकार / च सेवमानस्ये ति तपःसंयमावेव प्रतिकारस्तपःसंयमप्रतिकारः, सांसारिकदुःखानामिति गम्यते, तंच सेवमानस्य, चशब्दात्पूर्वोक्तप्रतिकारं च, किं?- धन॑ धर्मध्यानमेव भवति, कथं सेवमानस्य?- अनिदान मिति क्रियाविशेषणम्, देवेन्द्रादिनिदानरहितमित्यर्थः, आह-कृत्स्नकर्मक्षयान्मोक्षोभवत्वितीदमपि निदानमेव, उच्यते, सत्यमेतदपि निश्चयतः प्रतिषिद्धमेव, कथं?- मोक्षे भवे च सर्वत्र, निस्पृहो मुनिसत्तमः / प्रकृत्याऽभ्यासयोगेन, यत उक्तो जिनागमे॥१॥इति, तथापि तु भावनायामपरिणतं सत्त्वमङ्गीकृत्य व्यवहारत इदमदुष्टमेव, अनेनैव प्रकारेण तस्य चित्तशुद्धेःक्रियाप्रवृत्तियोगाच्चेत्यत्र बहु वक्तव्यं तत्तु नोच्यते / ग्रन्थविस्तरभयादिति गाथार्थः॥ 12 // अन्ये पुनरिदं गाथाद्वयं चतुर्भेदमप्यार्तध्यानमधिकृत्य साधोः प्रतिषेधरूपतया 0 करिष्याम्यच्छित्तिमथवाध्येष्ये तपउपधानयोश्चोद्यस्यामि / गणं च नीत्या सारयिष्यामि सालम्बसेवी समुपैति मोक्षम् // 1 // 0 गीतार्थो यतनया कृतयोगी कारणे निर्दोषः। // 1037 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy