________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् 4. चतुर्थमध्ययनम् प्रतिक्रमणं, ४.१ध्यानशतकम्। सू०गा० 10-11 आर्त्तध्यानभेदाः। भाग-३ // 1036 // आह एवं चउव्विहं रागदोसमोहंकियस्स जीवस्स। अज्झाणं संसारवद्धणं तिरियगइमूलं / / सू० गा०१०॥ एतद् अनन्तरोदितं चतुर्विधं चतुष्प्रकारं रागद्वेषमोहाङ्कितस्य रागादिलाञ्छितस्येत्यर्थः, कस्य?- जीवस्य आत्मनः, किं?आर्तध्यानमिति, तथा च इयं चतुष्टयस्यापि क्रिया, किंविशिष्टमित्यत आह-संसारवर्द्धनमोघतः, तिर्यग्गतिमूलं विशेषत इति गाथार्थः॥ 10 // आह- साधोरपि शूलवेदनाभिभूतस्यासमाधानात् तत्प्रतिकारकरणे च तद्विप्रयोगप्रणिधानापत्तेस्तथा तपःसंयमासेवने च नियमतः सांसारिकदुःखवियोगप्रणिधानादार्तध्यानप्राप्तिरिति, अत्रोच्यते, रागादिवशवर्तिनो भवत्येव, न पुनरन्यस्येति, आह च ग्रन्थकार: मज्झत्थस्स उमुणिणो सकम्मपरिणामजणियमेयंति / वत्थुस्सभावचिंतणपरस्स समं सहतस्स ॥सू० गा०११॥ मध्ये तिष्ठतीति मध्यस्थः, रागद्वेषयोरिति गम्यते, तस्य मध्यस्थस्य, तुशब्द एवकारार्थः, स चावधारणे, मध्यस्थस्यैव नेतरस्य, मन्यते जगतस्त्रिकालावस्थामिति मुनिस्तस्य मुनेः, साधोरित्यर्थः, स्वकर्मपरिणामजनितमेतत्- शूलादि, यच्च प्राकर्मविपरिणामिदैवादशुभमापतति न तत्र परितापाय भवन्ति सन्तः, उक्तंच परममुनिभिः- पुविंखलु भो! कडाणं कम्माण दुच्चिण्णाणं दुप्पडिक्ताणं वेइत्ता मोक्खो, नत्थि अवेदइत्ता, तवसा वा झोसइत्तेत्यादि, एवं वस्तुस्वभावचिन्तनपरस्य सम्यक्शोभनाध्यवसायेन सहमानस्य सतः कुतोऽसमाधानं?, अपितु धर्म्यमनिदानमिति वक्ष्यतीतिगाथार्थः॥११॥परिहृत आशङ्कागतः प्रथमपक्षः, द्वितीयतृतीयावधिकृत्याह पूर्वं खलु भोः कृतानां कर्मणां दुश्चीर्णानां दुष्प्रतिक्रान्तानां वेदयित्वा मोक्षो नास्त्यवेदयित्वा तपसा वा क्षपयित्वा।