SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1035 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, ४.१ध्यानशतकम् सू०गा० आर्त्तध्यानभेदाः। इट्ठाणं विसयाईण वेयणाए य रागरत्तस्स / अवियोगऽज्झवसाणं तह संजोगाभिलासोय॥सू० गा०८॥ इष्टानां मनोज्ञानां विषयादीनामिति विषयाः- पूर्वोक्ताः आदिशब्दाद् वस्तुपरिग्रहः, तथा वेदनायाश्च इष्टाया इति वर्तते, किं?- अवियोगाध्यवसानमिति योगः-, अविप्रयोगदृढाध्यवसाय इति भावः, अनेन वर्तमानकालग्रहः, तथा संयोगाभिलाषश्चेति, तत्र तथेति धणियमित्यनेनात्यर्थप्रकारोपदर्शनार्थः, संयोगाभिलाष:- कथं ममैभिर्विषयादिभिरायत्यां सम्बन्ध इतीच्छा, अनेन किलानागतकालग्रह इति वृद्धा व्याचक्षते, चशब्दात् पूर्ववदतीतकालग्रह इति, किंविशिष्टस्य सत इदमवियोगाध्यवसानाद्यत आह- रागरक्तस्य, जन्तोरिति गम्यते, तत्राभिष्वङ्गलक्षणो रागस्तेन रक्तस्य तद्भावितमूर्तेरिति गाथार्थः॥ उक्तस्तृतीयो भेदः, साम्प्रतं चतुर्थमभिधित्सुराह देविंदचक्कवट्टित्तणाई गुणरिद्धिपत्थणमईयं / अहम नियाणचिंतणमण्णाणाणुगयमचंतं ॥सू० गा०९॥ दीव्यन्तीति देवाः- भवनवास्यादयस्तेषामिन्द्राः- प्रभवो देवेन्द्राः- चमरादयः, तथा चक्रं- प्रहरणं तेन विजयाधिपत्ये वर्तितुंशीलमेषामिति चक्रवर्तिनो- भरतादयः, आदिशब्दाद्बलदेवादिपरिग्रहः अमीषां गुणऋद्धयः देवेन्द्रचक्रवर्त्यादिगुणर्द्धयः, तत्र गुणा:- सुरूपादयः ऋद्धिस्तु विभूतिः, तत्प्रार्थनात्मकं तद्याञ्चामयमित्यर्थः, किं तद्?- अधमं जघन्यं निदानचिंतनं निदानाध्यवसायः, अहमनेन तपस्त्यागादिना देवेन्द्रः स्यामित्यादिरूपः, आह-किमितीदमधमं?, उच्यते, यस्मादज्ञानानुगतमत्यन्तम्, तथा च नाज्ञानिनो विहाय सांसारिकेषु सुखेष्वन्येषामभिलाष उपजायते, उक्तंच-अज्ञानान्धाश्चटुलवनितापाङ्गविक्षेपितास्ते, कामे सक्तिं दधति विभवाभोगतुङ्गार्जने वा। विद्वच्चितं भवति च महत् मोक्षकाकतानं, नाल्पस्कन्धे विटपिनि कषत्यसभित्ति गजेन्द्रः॥१॥ इति गाथार्थः॥९॥ उक्तश्चतुर्थो भेदः, साम्प्रतमिदं यथाभूतस्य भवति यवर्द्धनं चेदमिति तदेतदभिधातुकाम
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy