SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1034 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, ४.१ध्यानशतकम्। सू०गा०७ आर्त्तध्यानभेदाः। विषयवस्तूना मिति शब्दादयश्चते विषयाश्च, आदिग्रहणाद्वर्णादिपरिग्रहः, विषीदन्ति एतेषु सक्ताः प्राणिन इति विषया इन्द्रियगोचरा वा, वस्तूनि तु तदाधारभूतानिरासभादीनि, ततश्च-शब्दादिविषयाश्च वस्तूनि चेति विग्रहस्तेषाम्, किं?-सम्प्राप्तानां सतां धणियं अत्यर्थं वियोगचिन्तनं विप्रयोगचिन्तेति योगः, कथं नु नाम ममैभिर्वियोगः स्यादिति भावः?, अनेन वर्तमानकालग्रहः, तथा सति च वियोगेऽसम्प्रयोगानुस्मरणम्, कथमेभिः सदैव सम्प्रयोगाभाव इति?, अनेन चानागतकालग्रहः, चशब्दात् पूर्वमपि वियुक्तासम्प्रयुक्तयोर्बहुमतत्वेनातीतकालग्रह इति, किंविशिष्टस्य सत इदं वियोगचिन्तनाद्यत आहद्वेषमलिनस्य जन्तोरिति गम्यते, तत्राप्रीतिलक्षणो द्वेषस्तेन मलिनस्य- तदाक्रान्तमूर्तेरिति गाथार्थः॥६॥उक्तः प्रथमो भेदः, साम्प्रतं द्वितीयमभिधित्सुराह तहसूलसीसरोगाइवेयणाए व(वि) जोगपणिहाणं / तदसंपओगचिंता तप्पडियाराउलमणस्स ॥सू० गा०७॥ तथे ति धणियं- अत्यर्थमेव, शूलशिरोरोगवेदनाया इत्यत्रशूलशिरोरोगौ प्रसिद्धौ, आदिशब्दाच्छेषरोगातङ्कपरिग्रहः, ततश्च शूलशिरोरोगादिभ्यो वेदना 2, वेद्यत इति वेदना तस्याः, किं?- वियोगप्रणिधानं वियोगे दृढाध्यवसाय इत्यर्थः, अनेन वर्तमानकालग्रहः, अनागतमधिकृत्याह- तदसम्प्रयोगचिन्ते ति तस्याः- वेदनायाः कथञ्चिदभावे सत्यसम्प्रयोगचिन्ता, कथं पुनर्ममानया आयत्यां सम्प्रयोगो न स्यादिति?, चिन्ता चात्र ध्यानमेव गृह्यते, अनेन च वर्तमानानागतकालग्रहणेनातीतकालग्रहोऽपि कृत एव वेदितव्यः, तत्र च भावनाऽनन्तरगाथायां कृतैव, किंविशिष्टस्य सत इदं वियोगप्रणिधानाद्यत आह बानाधत आह तत्प्रतिकारे- वेदनाप्रतिकारे चिकित्सायामाकुलं- व्यग्रं मनः- अन्त:करणं यस्य स तथाविधस्तस्य, वियोगप्रणिधानाधार्तध्यानमिति गाथार्थः॥७॥ उक्तो द्वितीयो भेदः, साम्प्रतं तृतीयमुपदर्शयन्नाह // 1034 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy