________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1033 // ध्यानस्य सामान्येन लक्षणमुक्तम्, अधुना विशेषलक्षणाभिधित्सया ध्यानोद्देशं विशिष्टफलभावं च संक्षेपतः प्रदर्शयन्नाह अटुंरुदं धम्म सुक्कं झाणाइ तत्थ अंताई। निव्वाणसाहणाई भवकारणमट्टरुद्दाई।सू० गा०५॥ आर्तं रौद्रं धन॑ शुक्लम्, तत्र ऋतं- दुःखं तन्निमित्तो दृढाध्यवसायः, ऋते भवमार्तं क्लिष्टमित्यर्थः, हिंसाद्यतिक्रौर्यानुगतं रौद्रम्, श्रुतचरणधर्मानुगतं धर्म्यम्, शोधयत्यष्टप्रकारं कर्ममलं शुचं वा क्लमयतीति शुक्लम्, अमूनि ध्यानानि वर्तन्ते, अधुना फलहेतुत्वमुपदर्शयति-तत्र ध्यानचतुष्टये अन्त्ये चरमे सूत्रक्रमप्रामाण्याद्धर्मशुक्ले इत्यर्थः, किं?- निर्वाणसाधने इह निर्वृतिः निर्वाणं-सामान्येन सुखमभिधीयते तस्य साधने- करणे इत्यर्थः, ततश्च-अट्टेण तिरिक्खगई रुद्दज्झाणेण गम्मती नरयं / धम्मेण देवलोयं सिद्धिगई सुक्कझाणेणं // 1 // ' ति यदुक्तं तदपि न विरुध्यते, देवगतिसिद्धिगत्योः सामान्येन सुखसिद्धेरिति, अथापि निर्वाणं मोक्षस्तथापि पारम्पर्येण धर्मध्यानस्यापि तत्साधनत्वादविरोध इति, तथा भवकारणमातरौद्रे इति तत्र भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः- संसार एव, तथाऽप्यत्र व्याख्यानतो विशेषप्रतिपत्तिः (तेः) तिर्यग्नरकभवग्रह इति गाथार्थः॥५॥साम्प्रतं 'यथोद्देशस्तथा निर्देश' इति न्यायादार्तध्यानस्य स्वरूपाभिधानावसरः, तच्चस्वविषयलक्षणभेदतश्चतुर्दा, उक्तं च भगवता वाचकमुख्येन-आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारौ।। वेदनायाश्च // विपरीतं मनोज्ञादीनां। निदानं च // (तत्त्वा० अ०९ सू० 31-32-33-34) इत्यादि तत्राऽऽद्यभेदप्रतिपादनायाह___ अमणुण्णाणं सद्दाइविसयवत्थूण दोसमइलस्स / धणियं विओगचिंतणमसंपओगाणुसरणं च // सू० गा०६॥ अमनोज्ञाना मिति मनसोऽनुकूलानि मनोज्ञानि इष्टानीत्यर्थः न मनोज्ञानि अमनोज्ञानि तेषाम्, केषामित्यत आह-शब्दादि© आर्तेन तिर्यगतिः रौद्रध्यानेन गम्यते नरकः। धर्मेण देवलोकः सिद्धिगतिः शुक्लध्यानेन // 1 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.1 ध्यानशतकम्। सू०गा०५ ध्यानभेदास्तत्फलं च। सूगा०६ आर्त्तध्यानभेदाः। // 1033 //