SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक | नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1032 // छद्म-पिधानं तच्च ज्ञानादीनां गुणानामावारकत्वाज्ज्ञानावरणादिलक्षणं घातिकर्म, छद्मनि स्थिताश्छद्मस्था अकेवलिन 4. चतुर्थइत्यर्थः, तेषां छद्मस्थानाम्, ध्यानं प्राग्वत्, ततश्चायं समुदायार्थः- अन्तर्मुहूर्तकालं यञ्चित्तावस्थानमेकस्मिन् वस्तुनि / मध्ययनम् प्रतिक्रमणं, तच्छद्मस्थानां ध्यानमिति, योगनिरोधो जिनानां त्विति तत्र योगा:- तत्त्वत औदारिकादिशरीरसंयोगसमुत्था आत्मपरिणाम 4.1 ध्यानविशेषव्यापारा एव, यथोक्तं-औदारिकादिशरीरयुक्तस्याऽऽत्मनो वीर्यपरिणतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापार- शतकम्। हृतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो वाग्योगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो मनोयोगः सू०गा०४ ध्यानस्थितिः। इति, अमीषां निरोधो योगनिरोधः, निरोधनं निरोधः, प्रलयकरणमित्यर्थः, केषां?-'जिनानां' केवलिनाम्, तुशब्द एवकारार्थः स चावधारणे, योगनिरोध एव न तु चित्तावस्थानम्, चित्तस्यैवाभावाद्, अथवा योगनिरोधो जिनानामेव ध्यानं नान्येषाम्, अशक्यत्वादित्यलं विस्तरेण, यथा चायं योगनिरोधो जिनानां ध्यानं यावन्तं च कालमेतद्भवत्येतदुपरिष्टाद्वक्ष्याम इति गाथार्थः॥३॥ साम्प्रतं छद्मस्थानामन्तर्मुहूर्तात् परतो यद्भवति तदुपदर्शयन्नाह अंतोमुहुत्तपरओ चिंता झाणंतरं व होजाहि।सुचिरंपि होज्ज बहुवत्थुसंकमे झाणसंताणो॥सू० गा०४॥ ___ अन्तर्मुहूर्तात् परत इति भिन्नमुहूर्तादूर्ध्वं चिन्ता प्रागुक्तस्वरूपा तथा ध्यानान्तरं वा भवेत्, तत्रेह न ध्यानादन्यद् ध्यानं ध्यानान्तरं परिगृह्यते, किं तर्हि ?- भावनानुप्रेक्षात्मकं चेत इति, इदं च ध्यानान्तरं तदुत्तरकालभाविनि ध्याने सति भवति, तत्राप्ययमेव न्याय इतिकृत्वा ध्यानसन्तानप्राप्तिर्यतः अतस्तमेव कालमानं वस्तुसङ्कमद्वारेण निरूपयन्नाह-सुचिरमपि प्रभूतमपि, 8 // 1032 // कालमिति गम्यते, भवेत् बहुवस्तुसङ्कमे सति ध्यानसन्तानः ध्यानप्रवाह इति, तत्र बहूनि च तानि वस्तूनि 2 आत्मगतपरगतानि गृह्यन्ते, तत्रात्मगतानि मनःप्रभृतीनि परगतानि द्रव्यादीनीति, तेषु सङ्कमःसच्चरणमिति गाथार्थः॥४॥ इत्थं तावत् सप्रसङ्गं
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy