________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ 4. चतुर्थमध्ययनम् प्रतिक्रमणं, ४.१ध्यानशतकम्। सू०गा०३ ध्यानस्थितिः। // 1031 // यदि त्युद्देशः स्थिरं- निश्चलम्, अध्यवसानं- मन एकाग्रतालम्बनमित्यर्थः, तदि ति निर्देशे, ध्यानं प्राग्निरूपितशब्दार्थम्, ततश्चैतदुक्तं भवति- यत् स्थिरमध्यवसानं तद्ध्यानमभिधीयते, यच्चल मिति यत्पुनरनवस्थितं तच्चित्तम्, तच्चौघतस्त्रिधा भवतीति दर्शयति- तद्भवेद्भावना वे ति तच्चित्तं भवेद्भावना, भाव्यत इति भावना ध्यानाभ्यासक्रियेत्यर्थः, वा विभाषायाम्, अनुप्रेक्षा वेति अनु- पश्चाद्भावे प्रेक्षणं प्रेक्षा, सा च स्मृतिानाद् भ्रष्टस्य चित्तचेष्टेत्यर्थः, वा पूर्ववत् अथवा चिन्ते ति अथवाशब्दः प्रकारान्तरप्रदर्शनार्थः चिन्तेति या खलूक्तप्रकारद्वयरहिता चिन्ता मनश्चेष्टा सा चिन्तेति गाथार्थः // 2 // इत्थं ध्यानलक्षणमोघतोऽभिधायाधुना ध्यानमेव कालस्वामिभ्यां निरूपयन्नाह अंतोमुहत्तमेत्तं चित्तावत्थाणमेगवत्थुमि / छउमत्थाणं झाणंजोगनिरोहो जिणाणं तु॥सू० गा०३॥ इह मुहूर्तः- सप्तसप्ततिलवप्रमाणः कालविशेषो भण्यते, उक्तं च- कालो परमनिरुद्धो अविभज्जो तं तु जाण समयं तु / समया या असंखेज्जा भवंति ऊसासनीसासा॥१॥ हट्ठस्स अणवगल्लस्स, णिरुवकिट्ठस्स जंतुणो। एगे ऊसासनीसासे, एस पाणुत्ति वुच्चइ // 2 // सत्त पाणूणि से थोवे, सत्त थोवाणि से लवे। लवाणं सत्तहत्तरीए, एस मुहत्ते वियाहिए॥३॥ अन्तर्मध्यकरणे, ततश्चान्तर्मुहूर्तमात्रं कालमिति गम्यते, मात्रशब्दस्तदधिककालव्यवच्छेदार्थः, ततश्च भिन्नमुहूर्तमेव कालम्, किं?- चित्तावस्थान मिति चित्तस्यमनसः अवस्थानं चित्तावस्थानम्, अवस्थिति:- अवस्थानम्, निष्प्रकम्पतया वृत्तिरित्यर्थः, क्क?- एकवस्तुनि एक-अद्वितीयं वसन्त्यस्मिन् गुणपर्याया इति वस्तु-चेतनादि एकं च तद्वस्तु एकवस्तु तस्मिन् 2 छद्मस्थानां ध्यान मिति, तत्र छादयतीति 0 कालः परमनिरुद्धोऽविभाज्यस्तमेव जानीहि समयं तु। समयाश्चासंख्येया भवत उच्छ्रासनिःश्वासौ // 1 // हृष्टस्यानवकल्पस्य निरुपक्लिष्टस्य जन्तोः। एक उच्छासनिश्वास एष प्राण इत्युच्यते // 2 // सप्त प्राणास्ते स्तोके सप्त स्तोकास्ते लवे। लवानां सप्तसप्तत्या एष मुहूर्तो व्याख्यातः॥ 3 //