SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.1 ध्यानशतकम्। सू०गा०२ ध्यानचित्तयोर्लक्षणे। भाग-३ // 1030 // मनोवाक्कायव्यापारलक्षणाः तैरीश्वरः- प्रधानस्तम्, तथाहि- अनुत्तरा एव भगवतो मनोवाक्कायव्यापारा इति, यथोक्तंदव्वमणोजोएणं मणणाणीणं अणुत्तराणं च। संसयवोच्छित्तिं केवलेण नाऊण सइ कुणइ // 1 // रिभियपयक्खरसरला मिच्छितरतिरिच्छसगिरपरिणामा। मणणिव्वाणी वाणी जोयणनिहारिणी जं च // 2 // एक्का य अणेगेसिं संसयवोच्छेयणे अपडिभूया। न य णिविज्जइ सोया तिप्पइ सव्वाउएणंपि॥ 3 // सव्वसुरेहितोवि हु अहिगो कंतो य कायजोगो से। तहवि य पसंतरूवे कुणइ सया पाणिसंघाए॥४॥ इत्यादि, युज्यते वाऽनेन केवलज्ञानादिना आत्मेति योगः- धर्मशुक्लध्यानलक्षणः स येषां विद्यत इति योगिनः- साधवस्तैरीश्वरः, तदुपदेशेन तेषां प्रवृत्तेस्तत्सम्बन्धादिति, तेषां वा ईश्वरो योगीश्वरः, ईश्वरः प्रभुः स्वामीत्यनान्तरम्, योगीश्वरम्, अथवा योगिस्मर्यं- योगिचिन्त्यं ध्येयमित्यर्थः, पुनरपि स एव विशेष्यते- शरण्यम्, तत्र शरणे साधुः शरण्यस्तं-रागादिपरिभूताश्रितसत्त्ववत्सलं रक्षकमित्यर्थः, ध्यानाध्ययनं प्रवक्ष्यामीत्येतद् व्याख्यातमेव / अत्राऽऽह- यः शुक्लध्यानाग्निना दग्धकर्मेन्धनः स योगेश्वर एव यश्च योगेश्वरः स शरण्य एवेति गतार्थे विशेषणे, न, अभिप्रायापरिज्ञानाद्, इह शुक्लध्यानाग्निना दग्धकर्मेन्धनः सामान्यकेवल्यपि भवति, नत्वसौ योगेश्वरः, वाक्कायातिशयाभावात्, स एव च तत्त्वतः शरण्य इति ज्ञापनार्थमेवादुष्टमेतदपि, तथा चोभयपदव्यभिचारेऽज्ञातज्ञापनार्थं च शास्त्रे विशेषणाभिधानमनुज्ञातमेव पूर्वमुनिभिरित्यलं विस्तरेणेति गाथार्थः॥१॥साम्प्रतं ध्यानलक्षणप्रतिपादनायाऽऽह जंथिरमज्झवसाणं तं झाणं जंचलं तयं चित्तं / तं होज भावणा वा अणुपेहा वा अहव चिंता // सू० गा०२॥ द्रव्यमनोयोगेन मनोज्ञानिनामनुत्तराणां च / संशयव्युच्छित्तिं केवलेन ज्ञात्वा सदा करोति // 1 // रिभितपदाक्षरसरला म्लेच्छेतरतिर्यक्स्वगी:- परिणामा / मनोनिर्वापिणी वाणी योजनव्यापनी यच / / 2 / / एका चानेकेषां संशयव्युच्छेदनी अपरिभूता। न च निर्विद्यते श्रोता तप्यति सर्वायुषाऽपि // 2 // सर्वसुरेभ्योऽपि अधिकः कान्तश्च 8 काययोगस्तस्य। तथापि च प्रशान्तरूपान् करोति सदा प्राणिसंघातान् // 4 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy