________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1027 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, सूत्रम् 18(19)/ पडिक्कमामि तिहिंसल्लेहि यावत् विकथाः। मैथुनसंज्ञा मैथुनाभिलाष: वेदमोहोदयजोजीवपरिणाम एव, इयमपिचतुर्भिः स्थानैः समुत्पद्यते, तद्यथा-"चियमंससोणियताए 1 वेदमोहणिज्जोदएणं 2 मईए 3 तयट्ठोवओगेणं 4' तया, तथा परिग्रहसंज्ञा-परिग्रहाभिलाषस्तीव्रलोभोदयप्रभव आत्मपरिणामः, इयमपि चतुर्भिः स्थानैरुत्पद्यते, तद्यथा-'अविवित्तयाए१ लोहोदएणं 2 मईए 3 तदट्ठोवओगेणं 4' तया॥ प्रतिक्रमामि चतसृभिर्विकथाभिः करणभूताभिर्योऽतिचारः कृतः, तद्यथा-'स्त्रीकथये'ति विरुद्धा विनष्टा वा कथा विकथा, साच स्त्रीकथादिलक्षणा, तत्र स्त्रीणां कथा स्त्रीकथा तया, सा चतुर्विधा- जातिकथा कुलकथा रूपकथा नेपथ्यकथा, तत्र जातिकथा ब्राह्मणीप्रभृतीनामन्यतमा प्रशंसति द्वेष्टि वा, कुलकथा उग्रादिकुलप्रसूतानामन्यतमाम्, रूपकथा अन्ध्रिप्रभृतीनामन्यतमाया रूपं प्रशंसति-'अन्ध्रीणां च ध्रुवं लीलाचलितभूलते मुखे। आसज्य राज्यभारं स्वं, सुखं स्वपिति मन्मथः॥१॥' इत्यादिना, द्वेष्टि वाऽन्यथा, नेपथ्यकथा अन्ध्रीप्रभृतीनामेवान्यतमायाः कच्छटादिनेपथ्यं प्रशंसति द्वेष्टि वा, तथा भक्तं- ओदनादितस्य कथा भक्तकथा तया, साचतुर्विधाऽऽवापादिभेदतः, यथोक्तं-भत्तकहावि चउद्धा आवावकहा तहेव णिव्वावे। आरंभकहा य तहा णिट्ठाणकहा चउत्थी उ॥१॥आवावित्तियदव्वा सागघयादी य एत्थ उवउत्ता। दसपंचरूवइत्तियवंजणभेयाइ णिव्वावे॥२॥आरंभ छागतित्तिरमहिसारण्णादिया वधित एत्थ / रूवगसयपंचसया णिट्ठाणं जा सयसहस्सं ॥३॥देश:जनपदस्तस्य कथा देशकथा तया, इयमपि छन्दादिभेदादिना चतुर्द्धंव, यथोक्तं- देसस्स कहा भण्णइ देसकहा देस जणवओ Oचितमांसशोणिततया वेदमोहनीयोदयेन मत्या तदर्थोपयोगेन / 0 अविविक्ततया लोभोदयेन मत्या तदर्थोपयोगेन / 0 भक्तकथापि चतुर्धा आवापकथा तथैव निर्वापे। आरम्भकथा च तथा निष्ठानकथा चतुर्थी च॥ 1 // आवाप ईयव्या शाकघृतादिश्चात्रोपयुक्ताः। दश पञ्चरूप्यका इयद्- व्यञ्जनभेदादिर्निवापे॥२॥ आरम्भे छागतित्तिरमहिषारण्यादिका हता अत्र / शतपश्चशतरूपका निष्ठानं यावत् शतसहस्रम्॥३॥ देशस्य कथा भण्यते देशकथा देशो जनपदो. // 1027 //