SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1026 // सकाशेऽधीतमन्यं व्यपदिशति, अच्चासायणा-काया वया य तेच्चिय ते चेव पमाय अप्पमाया च / मोक्खाहिगारिगाणं 4. चतुर्थजोइसजोणीहि किं कजं? // 1 // ' इत्यादि, अन्तरायमसङ्खडास्वाध्यायिकादिभिः करोति, ज्ञानविसंवादयोगः अकाल- मध्ययनम् प्रतिक्रमणं, स्वाध्यायादिना, दर्शनं- सम्यग्दर्शनं तस्य विराधना दर्शनविराधना तया, असावप्येवमेव पञ्चभेदा, तत्र दर्शनप्रत्यनीकता सूत्रम् 18(19) क्षायिकदर्शनिनोऽपि श्रेणिकादयो नरकमुपगता इति निन्दया, निह्नवः- दर्शनप्रभावनीयशास्त्रापेक्षया प्राग्वद् द्रष्टव्यः, पडिक्कमामि तिहिं सल्लेहि अत्याशातना-किमेभिः कलहशास्त्रैरिति?, अन्तरायं प्राग्वत्, दर्शनविसंवादयोगःशङ्कादिना, चारित्रं प्राग्निरूपितशब्दार्थ / यावत् तस्य विराधना चारित्रविराधना तया- व्रतादिखण्डनलक्षणया। प्रतिक्रमामि चतुर्भिः कषायैर्योऽतिचारः कृतः, तद्यथा- विकथाः। क्रोधकषायेण मानकषायेण मायाकषायेण लोभकषायण, कषायस्वरूपं सोदाहरणं यथा नमस्कार इति॥ प्रतिक्रमामि चतसृभिः संज्ञाभिर्योऽतिचारः कृतः, तद्यथा- आहारसंज्ञयेत्यादि 4, तत्र संज्ञानं संज्ञा, सा पुनः सामान्येन क्षायोपशमिकी औदयिकीच, तत्राऽऽद्या ज्ञानावरणक्षयोपशमजामतिभेदरूपा, न तयेहाधिकारः, द्वितीया सामान्येन चतुर्विधाऽऽहारसंज्ञादिलक्षणा, तत्राहारसंज्ञा-आहाराभिलाषः क्षुद्वेदनीयोदयप्रभवः खल्वात्मपरिणाम इत्यर्थः,सापुनश्चतुर्भिःस्थानैः समुत्पद्यते, तद्यथा-'ओमकोट्टयाए 1 छुहावेयणिज्जस्स कम्मस्सोदएणं 2 मईए 3 तदट्ठोवजोगेणं तत्र मतिराहारश्रवणादिभ्यो भवति, तदर्थोपयोगस्त्वाहारमेवानवरतं चिन्तयतः, तयाऽऽहारसंज्ञया, भयसंज्ञा- भयाभिनिवेश:- भयमोहोदयजो जीवपरिणाम एव, इयमपि चतुर्भिः स्थानैः समुत्पद्यते तद्यथा-"हीणसत्तयाए 1 भयमोहणिज्जोदएणं 2 मइए 3 तयट्ठोवओगेणं' तया, 0 काया व्रतानि च तान्येव त एव प्रमादा अप्रमादाश्च / मोक्षाधिकारिणां ज्योतिर्योनिभिः किं कार्य? // 1 // ॐ अवमकोष्ठतया क्षुधा वेदनीयस्य कर्मण उदयेन | मत्या तदर्थोपयोगेन। 0 हीनसत्त्वतया भयमोहनीयोदयेन मत्या तदर्थोपयोगेन।
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy