SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1024 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, सूत्रम् 18(19) पडिलमामि तिहिं सल्लेहिं यावत् विकथा:। परिग्गहसण्णाए। पडिक्कमामि चउहिं विकहाहिं- इत्थीकहाए भत्तकहाए देसकहाए रायकहाए। पडिक्कमामि चउहिं झाणेहिंअट्टेणं झाणेणं रुद्देणं० धम्मेणं० सुक्केणं० // सूत्रम् 18 // (19) / प्रतिक्रमामि त्रिभिः शल्यैः करणभूतैर्योऽतिचारः कृतः, तद्यथा-मायाशल्येन निदानशल्येन मिथ्यादर्शनशल्येन, शल्यतेऽनेनेति शल्यं-द्रव्यभावभेदभिन्नम्, द्रव्यशल्यंकण्टकादि, भावशल्यमिदमेव, माया-निकृतिः सैवशल्यं मायाशल्यम्, इयं भावनायो यदाऽतिचारमासाद्य मायया नालोचयत्यन्यथा वा निवेदयत्यभ्याख्यानं वा यच्छति तदा सैव शल्यमशुभकर्मबन्धनेनात्मशल्यनात् तेन, निदानं-दिव्यमानुषर्द्धिसंदर्शनश्रावणाभ्यां तदभिलाषानुष्ठानं तदेव शल्यमधिकरणानुमोदनेनात्मशल्यनात् तेन, मिथ्या-विपरीतं दर्शनं मिथ्यादर्शनं मोहकर्मोदयजमित्यर्थः, तदेव शल्यं तत्प्रत्ययकर्मादानेनात्मशल्यनात्, तत्पुनरभिनिवेशमतिभेदान्यसंस्तवोपाधितो भवति, इह चोदाहरणानि-मायाशल्ये रुद्रो वक्ष्यमाणः पण्डुरार्या चोक्ता, निदानशल्ये ब्रह्मदत्तकथानकं यथा तच्चरिते, मिथ्यादर्शनशल्ये गोष्ठामाहिलजमालिभिक्षूपचरकश्रावका अभिनिवेशमतिभेदान्यसंस्तवेभ्यो मिथ्यात्वमुपागताः, तत्र गोष्ठामाहिलजमालिकथानकद्वयंसामायिके उक्तम्, भिक्षूपचरकश्रावककथानकं तूपरिष्टाद्वक्ष्यामः॥ प्रतिक्रमामि त्रिभिगौरवैः करणभूतैर्योऽतिचारः कृतः, तद्यथा- ऋद्धिगौरवेण रसगौरवेण सातगौरवेण, तत्र गुरोर्भावो गौरवम्, तच्च द्रव्यभावभेदभिन्नम्, द्रव्यगौरवं वज्रादेः भावगौरवमभिमानलोभाभ्यामात्मनोऽशुभभावगौरवं संसारचक्रवालपरिभ्रमणहेतुः कर्मनिदानमिति भावार्थः, तत्र ऋद्ध्या- नरेन्द्रादिपूज्याचार्यादित्वाभिलाषलक्षणया गौरवं- ऋद्धिप्राप्त्याभिमानाप्राप्तिसम्प्रार्थनद्वारेणाऽऽत्मनोऽशुभभावगौरवमित्यर्थः, एवं रसेन गौरवं- इष्टरसप्राप्त्यभिमानाप्राप्तिप्रार्थनद्वारेणाऽऽत्मनोऽशुभभावगौरवं तेन, सातं-सुखं तेन गौरवं सातप्राप्त्यभिमानाप्राप्तप्रार्थनद्वारेणात्मनोऽशुभभावगौरवं तेन, इह च त्रिष्वप्युदाहरणं // 1024 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy