SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1020 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, सूत्रम् 17(18) पडिकमामि एगविहे दण्डगुप्तिषूदाहरणानि सूत्रम्। तस्मिंस्तृतीयः, अतिचार इत्यर्थः, तावद्द्यावद्वसतिंगत्वेर्यापथप्रतिक्रमणाद्युत्तरकालं लम्बनोत्क्षेपः, तत उत्तरकालमनाचारः, तथा चाह-'इतरो गिलिए'त्ति प्रक्षिप्ते सति कवले अनाचार इति गाथार्थः॥ इदं चाधाकर्मोदाहरणेन सुखप्रतिपत्त्यर्थमति-0 क्रमादीनां स्वरूपमुक्तम्, अन्यत्राप्यनेनैवानुसारेण विज्ञेयमिति / अयं चातिचारःसंक्षेपत एकविधः, संक्षेपविस्तरतस्तु द्विविधः, त्रिविधो यावदसङ्खयेयविधः, संक्षेपविस्तरता पुनर्द्विविधः त्रिविधं प्रति संक्षेप एकविधं प्रति विस्तर इति, एवमन्यत्रापि योज्यम्, विस्तरतस्त्वनन्तविधः, तत्रैकविधादिभेदप्रतिक्रमणप्रतिपादनायाह पडिक्कमामि एगविहे असंजमे / पडिक्कमामिदोहिं बन्धणेहिं-रागबंधणेणं दोसबन्धणेणं / प० तिहिं दण्डेहिं मणदंडेणं वयदंडेणं / कायदंडेणं / प० तिहिं गुत्तीहिं-मणगुत्तीए वयगुत्तीए कायगुत्तीए॥ सूत्रम् 17 / / (18) प्रतिक्रमामि पूर्ववत्, एकविधे- एकप्रकारे असंयमे- अविरतिलक्षणे सति प्रतिषिद्धकरणादिना यो मया दैवसिकोऽतिचारः कृत इति गम्यते, तस्य मिथ्या दुष्कृतमिति सम्बन्धः, वक्ष्यते च सज्झाए ण सज्झाइयं तस्स मिच्छामि दुक्कडं एवमन्यत्रापि योजना कर्तव्या, प्रतिक्रामामि द्वाभ्यां बन्धनाभ्यां हेतुभूताभ्यां योऽतिचारः, बद्ध्यतेऽष्टविधेन कर्मणा येन हेतुभूतेन तद्बन्धनमिति, तद्वन्धनद्वयं दर्शयति-रागबन्धनं च द्वेषबन्धनं च, रागद्वेषयोस्तु स्वरूपं यथा नमस्कारे, बन्धनत्वं चानयोः प्रतीतम्, यथोक्तंस्नेहाभ्यक्तशरीरस्य रेणुना श्लिष्यते यथा गात्रम्। रागद्वेषाक्लिन्नस्य कर्मबन्धो भवत्येवम्॥१॥ प्रतिक्रमामि त्रिभिर्दण्डैः दण्ड्यतेचारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डाः द्रव्यभावभेदभिन्नाः, भावदण्डैरिहाधिकारः, तैर्हेतुभूतैर्योऽतिचारः, भेदेन दर्शयति- मनोदण्डेन वाग्दण्डेन कायदण्डेन, मनःप्रभृतिभिश्च दुष्प्रयुक्तैर्दण्ड्यते आत्मेति, अत्र चोदाहरणानि- तत्थ 0 तत्र
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy