SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1019 // चाउकाल परिभुक्तं वा यन्न परिष्ठापितम्, कथञ्चित् प्रतिगृहीतमपि यन्नोज्झितं परिभुक्तमपि च भावतोऽपुनःकरणादिना प्रकारेण | 4. चतुर्थयन्नोज्झितम्, एवमनेन प्रकारेण यो जातोऽतिचारस्तस्य मिथ्या दुष्कृतमिति पूर्ववत् // एवं गोचरातिचारप्रतिक्रमण- मध्ययनम् प्रतिक्रमणं, मभिधायाधुना स्वाध्यायाधतिचारप्रतिक्रमणप्रतिपादनायाऽऽह सूत्रम् 16(17) पडिक्कमामि चाउकालं सज्झायस्स अकरणयाए उभओकालं भंडोवगरणस्स अप्पडिलेहणयाए दुप्पडिलेहणयाए अप्पमजणाए पडिलमामि दुप्पमज्जणाए अइक्कमेवइक्कमे अइयारे अणायारेजो मे देवसिओ अइआरोकओ तस्स मिच्छामि दुक्कडं।सूत्रम 16 // (17) सूत्रम्। प्रतिक्रमामि पूर्ववत्, कस्य?- चतुष्कालं- दिवसरजनीप्रथमचरमप्रहरेष्वित्यर्थः, स्वाध्यायस्य सूत्रपौरुषीलक्षणस्य, अकरणतया- अनासेवनया हेतुभूतयेत्यर्थः, यो मया दैवसिकोऽतिचारः कृतः, तस्येति योगः, तथोभयकालं-प्रथमपश्चिमपौरुषीलक्षणं भाण्डोपकरणस्य- पात्रवस्त्रादेः अप्रत्युपेक्षणया दुष्प्रत्युपेक्षणया तत्राप्रत्युपेक्षणा- मूलत एव चक्षुषाऽनिरीक्षणा दुष्प्रत्युपेक्षणा- दुर्निरीक्षणा तया, अप्रमार्जनया दुष्प्रमार्जनया तत्राप्रमार्जना मूलत एव रजोहरणादिनाऽस्पर्शना दुष्प्रमार्जना त्वविधिना प्रमार्जनेति, तथा अतिक्रमेव्यतिक्रमे अतिचारे अनाचारे यो मया दैवसिकोऽतिचारः कृतस्तस्य मिथ्यादुष्कृतमित्येतत्प्राग्वत्, नवरमतिक्रमादीनां स्वरूपमुच्यते-'आधाकम्मनिमंतण पडिसुणमाणे अइक्कमो होइ / पयभेयाइ वइक्कम गहिए तइएयरोल गिलिए॥१॥'अस्य व्याख्या- आधाकर्मनिमन्त्रणे गृहीष्ये एवं प्रतिशृण्वति सति साधावतिक्रम:- साधुक्रियोल्लङ्गनरूपो भवति, यत एवम्भूतं वचः श्रोतुमपि न कल्पते, किं पुनः प्रतिपत्तुं?, ततःप्रभृति भाजनोद्गहणादौ तावदतिक्रमो // 1019 // यावदुपयोगकरणम्, ततः कृते उपयोगे गच्छतः पदभेदादिर्व्यतिक्रमस्तावद् यावदुत्क्षिप्तं भोजनं दात्रेति, ततो गृहीते सति 0 आधाकर्मनिमन्त्रणे प्रतिशृण्वति अतिक्रमो भवति / पदभेदादि व्यतिक्रमो गृहीते तृतीय इतरो गिलिते॥१॥ 8888888888808
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy