SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ 4. चतुर्थमध्ययनम् प्रतिक्रमणं, सूत्रम् 15(16) पडिक्कमामि गोयर० सूत्रम्। // 1018 // ठवणा (जा) भिक्खायरियाण ठवियाउ॥३॥' आधाकर्मादीनां- उद्गमादिदोषाणामन्यतमेन शडिते गृहीते सति योऽतिचारः, सहसाकारे वा सत्यकल्पनीये गृहीत इति, अत्र च तमपरित्यजतोऽविधिना वा परित्यजतो योऽतिचारः, अनेन प्रकारेणानेषणया हेतुभूतया, तथा पाणभोयणाए त्ति प्राणिनो- रसजादयः भोजने-दध्योदनादौ सङ्घयन्ते-विराध्यन्ते व्यापाद्यन्ते वा यस्यां प्राभृतिकायां सा प्राणिभोजना तया, तेषां च सट्टनादि दातृग्राहकप्रभवं विज्ञेयम्, अत एवातिचारः, एवं बीयभोयणाए बीजानि भोजने यस्यांसा बीजभोजना तया, एवं हरितभोजनया, पच्छाकम्मियाए पुरेकम्मियाए पश्चात् कर्म यस्यां पश्चाजलोज्झनकर्म भवति पुरःकर्म यस्यामादाविति, अदिट्ठहडाएत्ति अदृष्टाहृतया-अदृष्टोत्क्षेपमानीतयेत्यर्थः, तत्र च सत्त्वसङ्कुट्टनादिनाऽतिचारसम्भवो, दगसंसृष्टाहृतया- उदकसम्बद्धानीतया हस्तमात्रगतोदकसंसृष्टया वा भावना, एवं रजः संसृष्टाहृतया, नवर रजः पृथिवीरजोऽभिगृह्यते, पारिसाडणियाए त्ति परिशाटः- उज्झनलक्षणः प्रतीत एव तस्मिन् भवा पारिशाटनिका तया, पारिछावणियाए त्ति परिस्थापन-प्रदानभाजनगतद्रव्यान्तरोज्झनलक्षणं तेन निर्वृत्ता पारिस्थापनिका तया, एतदुक्तं भवति'पारिट्ठावणिया खलु जेण भाणेण देइ भिक्खं तु / तंमि पडिओयणाई जातं सहसा परिट्ठवियं // 1 // ' ओहासणभिक्खाए त्ति विशिष्टद्रव्ययाचनं समयपरिभाषया ओहासणंति भण्णइ'तत्प्रधाना या भिक्षा तया, कियदत्र भणिष्यामो?, भेदानामेवंप्रकाराणां बहुत्वात्, ते च सर्वेऽपि यस्मादुद्गमोत्पादनैषणास्ववतरन्त्यत आह-जं उग्गमेण मित्यादि, यत्किञ्चिदशनाद्युद्गमेनआधाकर्मादिलक्षणेन उत्पादनया-धात्र्यादिलक्षणया एषणया-शङ्कितादिलक्षणया अपरिशुद्धं- अयुक्तियुक्तं प्रतिगृहीतं वा स्थापना (या) भिक्षाचरेभ्यः स्थापिता // 3 // 0 पारिस्थापनिका खलु येन भाजनेन ददाति भिक्षां तु / तस्मिन् पतितौदनादि जातं सहसा परिस्थापितम् // 1 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy