________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1016 // | 4. चतुर्थमध्ययनम् प्रतिक्रमणं, सूत्रम् 14(15) इच्छामि पडिक्कमि इरिया० सूत्रम्। पायस्स पण्हिया ठाइ। तहियं पमज्जिऊणं आगासेणं तु णेऊणं // 2 // पायं ठावित्तु तहिं आगासे चेव पुणोवि आउंटे। एवं विहिमकरेंते अइयारो तत्थ से होइ // 3 // षट्पदिकानां- यूकानां सङ्घटन- अविधिना स्पर्शनं षट्पदिकासङ्घट्टनं तदेव षट्पदिकासङ्घटना तया, तथा कूइए त्ति कूजिते सति योऽतिचारः, कूजितं- कासितं तस्मिन् अविधिना मुखवस्त्रिकां करं वा मुखेऽनाधाय कृत इत्यर्थः, विषमा घर्मवतीत्यादिशय्यादोषोच्चारणं सकर्करायितमुच्यते तस्मिन् सति योऽतिचारः, इह चाऽऽर्तध्यानजोऽतिचारः, क्षुते- अविधिना जृम्भितेऽविधिनैव आमर्षणमामर्षः- अप्रमृज्य करेण स्पर्शनमित्यर्थः, तस्मिन् सरजस्कामर्षे सति, सह पृथिव्यादिरजसा यद्वस्तुस्पृष्टं तत्संस्पर्शे सतीत्यर्थः, एवं जाग्रतोऽतिचारसम्भवमधिकृत्योक्तम्, अधुना सुप्तस्योच्यते-आउलमाउलाए त्ति आकुलाकुलया- स्त्र्यादिपरिभोगविवाहयुद्धादिसंस्पर्शननानाप्रकारया स्वप्नप्रत्ययया- स्वप्ननिमित्तया, विराधनयेति गम्यते, सा पुनर्मूलोत्तरगुणातिचारविषया भवत्यतो भेदेन तां दर्शयन्नाह- इत्थीविप्परियासियाए त्ति स्त्रिया विपर्यासः स्त्रीविपर्यासः- अब्रह्मासेवनं तस्मिन् भवा स्त्रीवैपर्यासिकी तया, स्त्रीदर्शनानुरागतस्तदवलोकनं दृष्टिविपर्यासः तस्मिन् भवा दृष्टिवैपर्यासिकी तया, एवं मनसाऽध्युपपातो मनोविपर्यासस्तस्मिन् भवा मनोवैपर्यासिकी तया, एवं पानभोजनवैपर्यासिक्या, रात्रौ पानभोजनपरिभोग एव तद्विपर्यासः, अनया हेतुभूतया य इत्यतिचारमाह, मयेत्यात्मनिर्देशः, दिवसेन निर्वृत्तो दिवसपरिमाणो वा दैवसिकः, अतिचरणमतिचार:- अतिक्रम इत्यर्थः, कृतो- निर्वर्तितः, तस्स मिच्छामि दुक्कडं पूर्ववत्, आह-दिवा शयनस्य निषिद्धत्वादसम्भव एवास्यातिचारस्य, न, अपवादविषयत्वादस्य, तथाहि-अपवादतः सुप्यत एव दिवा अध्वानखेदादौ, इदमेव वचनं ज्ञापकम् ॥एवं त्वग्वर्तनास्थानातिचारप्रतिक्रमणमभिधायेदानीं गोचरातिचारप्रति पादस्य पार्णिका तिष्ठति। तत्र प्रमााकाशे तु नीत्वा // 2 // पादं स्थापयित्वा तत्राकाश एव पुनरप्याकुञ्चयेत् / एवं विधिमकुर्वत्यतिचारस्तत्र तस्य भवति // 3 // // 1016 //