________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1014 // सूत्रम्। गमनं स्वाध्यायादिनिमित्तं वसतेरिति, आगमनं प्रयोजनपरिसमाप्तौ पुनर्वसतिमेवेति, तत्रापि यःकथं जातोऽतिचार इत्यत। 4. चतुर्थआह- पाणक्कमणे प्राणिनो- द्वीन्दियादयस्त्रसा गृह्यन्ते, तेषामाक्रमणं-पादेन पीडनं प्राण्याक्रमणम्, तस्मिन्निति, तथा / मध्ययनम् प्रतिक्रमणं, बीजाक्रमणे, अनेन बीजानां जीवत्वमाह, हरिताक्रमणे, अनेन तु सकलवनस्पतेरेव, तथाऽवश्यायोत्तिङ्गपनकदगमृत्तिका | सूत्रम् 13(14) मर्कटसन्तानसङ्कमणे सति, तत्रावश्यायः- जलविशेषः, इह चावश्यायग्रहणमतिशयतः शेषजलसम्भोगपरिवारणार्थमिति, इच्छामि पडिक्कमि एवमन्यत्रापि भावनीयम्, उत्तिङ्गा- गईभाकृतयो जीवाः कीटिकानगराणि वा पनकः- फुल्लि दगमृत्तिका- चिक्खल्लम्, इरिया० अथवा दकग्रहणादप्कायः, मृत्तिकाग्रहणात् पृथ्वीकायः, मर्कटसन्तानः कोलिकजालमुच्यते, ततश्चावश्यायश्चोत्तिङ्गश्चेत्यादि द्वन्द्वः, अवश्यायोत्तिङ्गपनकदगमृत्तिकामर्कटसन्तानास्तेषां सङ्कमणं- आक्रमणं तस्मिन्, किंबहुना!, कियन्तो भेदेनाऽऽख्यास्यन्ते?, सर्वे ये मया जीवा विराधिता- दुःखेन स्थापिताः, एकेन्द्रियाः- पृथिव्यादयः, द्वीन्द्रियाः- कृम्यादयः, त्रीन्द्रियाःपिपीलिकादयः, चतुरिन्द्रिया- भ्रमरादयः, पञ्चेन्द्रिया-मूषिकादयः, अभिहताः अभिमुख्येन हताः, चरणेन घट्टिताः, उत्क्षिप्य क्षिप्ता वा, वर्तिताः- पुजीकृताः, धूल्या वा स्थगिता इति, श्लेषिता:-पिष्टाः, भूम्यादिषु वा लगिताः, सङ्घातिता- अन्योऽन्यं गात्रैरेकत्र लगिताः, सङ्घट्टिता-मनाक्स्पृष्टाः, परितापिताः-समन्ततः पीडिताः, क्लामिताः-समुद्धातं नीता: ग्लानिमापादिता इत्यर्थः, अवद्राविता- उत्त्रासिताः स्थानात् स्थानान्तरं सङ्कामिता:- स्वस्थानात् परं स्थानं नीताः, जीविताद् व्यपरोपिताः, व्यापादिता इत्यर्थः, एवं यो जातोऽतिचारस्तस्य, एतावता क्रियाकालमाह, तस्यैव मिच्छामि दुक्कडं इत्यनेन निष्ठाकालमाह, मिथ्या दुष्कृतं पूर्ववद्, एवं तस्येत्युभययोजना सर्वत्र कार्या / इत्थं गमनातिचारप्रतिक्रमणमुक्तम्, अधुना त्वग्वर्तनस्थाना (c) अभिमुखागता। // 1014