________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1013 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, सूत्रम् 13(14) इच्छामि पडिक्कमिडं इरिया० सूत्रम्। सेवने प्रतिक्रमणम्, अश्रद्धाने च तथा केवलिप्ररूपितानां पदार्थानां प्रतिक्रमणमिति वर्तते, विपरीतप्ररूपणायांच अन्यथा पदार्थकथनायां च प्रतिक्रमणमिति गाथार्थः॥ 1271 // अनया च गाथया यथायोगं सर्वसूत्राण्यनुगन्तव्यानि, तद्यथासामायिकसूत्रे प्रतिषिद्धौ रागद्वेषौ तयोः करणे कृत्यस्तु तन्निग्रहस्तस्याकरणे सामायिकं मोक्षकारणमित्यश्रद्धाने असमभावलक्षणंसामायिकमिति विपरीतप्ररूपणायांच प्रतिक्रमणमिति, एवं मङ्गलादिसूत्रेष्वप्यायोज्यम्, चत्वारोमङ्गलमित्यत्र प्रतिषिद्धोऽमङ्गलाध्यवसायस्तत्करण इत्यादिना प्रकारेण, एवमोघातिचारस्य समासेन प्रतिक्रमणमुक्तम्, साम्प्रतमस्यैव विभागेनोच्यते, तत्रापि गमनागमनातिचारमधिकृत्याऽऽह इच्छामि पडिक्कमिउंइरियावहियाए विराहणाए गमणागमणे पाणक्कमणे बीयक्कमणे हरियक्कमणे ओसाउत्तिंगपणगदगमट्टिमकडासंताणासंकमणे जे मे जीवा विराहिया एगिंदिया बेइंदिया तेइंदिया चउरिंदिया पंचिंदिआ अभिहआ वत्तिआ लेसिआ संघाइया संघट्टिआ परिआविआ किलामिआ उद्दविआठाणाओठाणं संकामिआ जीविआओ ववरोविआ तस्स मिच्छामि दुक्कडं।सूत्रम् 13 // (14) इच्छामि- अभिलषामि प्रतिक्रमितुं-निवर्तितुम्, ईर्यापथिकायां विराधनायां योऽतिचार इति गम्यते, तस्येति योगः, अनेन / क्रियाकालमाह- मिच्छामि दुक्कडं इत्यनेन तु निष्ठाकालमिति, तत्रेरणमीर्या गमनमित्यर्थः, तत्प्रधानः पन्था ईर्यापथः, तत्र भवैर्यापथिकी तस्याम्, कस्यामित्यत आह-विराध्यन्ते- दुःखं स्थाप्यन्ते प्राणिनोऽनयेति विराधनाक्रिया तस्यां विराधनायां सत्याम, योऽतिचार इति वाक्यशेषः, तस्येति योगः, विषयमुपदर्शयन्नाह-गमनं चागमनं चेत्येकवद्भावस्तस्मिन्, तत्र 0 किंविशिष्टाया - (प्र०)। // 1013 //