________________ श्रीआवश्यक निर्यक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1012 // प्रगृहीतं यद्धोजनजातंभो(भु)क्त्वा वास्वहस्तादिना तद्गृह्नत इति भावना षष्ठी, उज्झितधर्मा नाम यत्परित्यागार्ह भोजनजातमन्ये 4. चतुर्थच द्विपदादयो नावकाङ्क्षन्ति तदर्द्धत्यक्तं वा गृह्णत इति हृदयं सप्तमी, एष खलु समासार्थः, व्यासार्थस्तु ग्रन्थान्तरादवसेयः, मध्ययनम् प्रतिक्रमणं, सप्तानां पानैषणानां केचित् पठन्ति, ता अपि चैवम्भूता एव, नवरं चतुर्थ्यां नानात्वम्, तत्राप्यायामसौवीरादि निर्लेप नियुक्तिः विज्ञेयमिति, अष्टानां प्रवचनमातृणाम्, ताश्चाष्टौ प्रवचनमातरः- तिम्रो गुप्तयस्तथा पञ्च समितयः, तत्र प्रवीचाराप्रवीचाररूपा |1271 प्रतिषिद्धगुप्तयः, समितयः प्रवीचाररूपा एव, तथा चोक्तं-समिओ णियमा गुत्तो गुत्तो समियत्तणमि भइयव्वो। कुसलवइमुदीरितो जल करणादिषु वयगुत्तोऽवि समिओऽवि॥१॥ नवानां ब्रह्मचर्यगुप्तीनां- वसतिकथादीनाम्, आसांस्वरूपमुपरिष्टाद्वक्ष्यामः, दशविधे- दशप्रकारे प्रतिक्रमणम्। श्रमणधर्म-साधुधर्मे क्षान्त्यादिके, अस्यापिस्वरूपमुपरिष्टाद्वक्ष्यामः, अस्मिन् गुप्त्यादिषु च ये श्रामणा योगाः- श्रमणानामेते श्रामणास्तेषां श्रामणानां योगानां- व्यापाराणां सम्यकप्रतिसेवनश्रद्धानप्ररूपणालक्षणानां यत् खण्डितं- देशतो भग्नं यद्विराधितं-8 सुतरां भग्नम्, न पुनरेकान्ततोऽभावमापादितम्, तस्य खण्डनविराधनद्वाराऽऽयातस्य चारित्रातिचारस्यैतद्रोचरस्य ज्ञानादिगोचरस्य च दैवसिकातिचारस्य, एतावता क्रियाकालमाह, तस्यैव मिच्छामि दुक्कडं इत्यनेन तु निष्ठाकालमाह, मिथ्येतिप्रतिक्रमामि दुष्कृतमेतदकर्तव्यमित्यर्थः, अत्रेयं सूत्रस्पर्शिकगाथा नि०- पडिसिद्धाणं करणे किच्चाणमकरणे य पडिक्कमणं / असहहणे य तहा विवरीयपरूवणाए य॥१२७१ // प्रतिषिद्धानां निवारितानामकालस्वाध्यायादीनामतिचाराणां करणे निष्पादने आसेवन इत्यर्थः, किं?- प्रतिक्रमणमिति योगः, प्रतीपंक्रमणं प्रतिक्रमणमिति व्युत्पत्तेः, कृत्यानां आसेवनीयानां कालस्वाध्यायादीनां योगानां अकरणे अनिष्पादनेऽनाO समितो नियमानुप्तो गुप्तः समितत्वे भक्तव्यः / कुशलवाचमुदीरयन् यद्वचोगुप्तोऽपि समितोऽपि॥१॥ N