________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1011 // एव साधूनामनाचरणीयः अत एवानेष्टव्यः- मनागपि मनसाऽपि न प्रार्थनीय इति, किंविषयोऽयमतिचार इत्याह- णाणे दंसणे चरित्ते ज्ञानदर्शनचारित्रविषयः, अधुना भेदेन व्याचष्टे-सुए त्ति श्रुतविषयः, श्रुतग्रहणं मत्यादिज्ञानोपलक्षणम्, तत्र विपरीतप्ररूपणाऽकालस्वाध्यायादिरतिचारः, सामाइय(ए) त्ति सामायिकविषयः, सामायिकग्रहणात् सम्यक्त्वसामायिकचारित्रसामायिकग्रहणम्, तत्र सम्यक्त्वसामायिकातिचारः शङ्कादिः, चारित्रसामायिकातिचारं तु भेदेनाह- तिण्हं गुत्तीण मित्यादि, तिसृणां गुप्तीनाम्, तत्र प्रविचाराप्रविचाररूपा गुप्तयः, चतुर्णां कषायाणां- क्रोधमानमायालोभानाम्, पञ्चानां महाव्रतानां- प्राणातिपातादिनिवृत्तिलक्षणानाम्, षण्णां जीवनिकायानां पृथिवीकायिकादीनाम्, सप्तानां पिण्डैषणानांअसंसृष्टादीनाम्, ताश्चेमाः- 'संसट्ठमसंसट्ठा उद्धड तह होइ अप्पलेवा य / उग्गहिआ पग्गहिआउज्झिय तह होइ सत्तमिआ॥ 4. चतुर्थमध्ययनम् प्रतिक्रमणं, सूत्रम् 12(13) इच्छामि पडिक्कमिड सूत्रम्। B व्याख्या-तत्रासंसृष्टा हस्तमात्राभ्यां चिन्त्या, असंसढे हत्थे असंसट्टे मत्ते, अखरडियमिति वुत्तं भवई' एवं गृह्णतः प्रथमा भवति, गाथायां सुखमुखोच्चारणार्थमन्यथा पाठः, संसृष्टा ताभ्यामेव चिन्त्या, संसढे हत्थे संसट्टे मत्ते, खरडिइत्ति वुत्तं होइ, एव गृह्णतो द्वितीया, उद्धृता नाम स्थालादौ स्वयोगेन भोजनजातमुद्धृतम्, ततः असंसढे हत्थे संसट्टे मत्ते असंसट्टे वा मत्ते / संसटे हत्थे' एवं गृह्णतस्तृतीया, अल्पलेपा नाम अल्पशब्दोऽभाववाचकः निर्लेपं- पृथुकादि गृह्णतश्चतुर्थी, अवगृहीता नाम भोजनकाले शरावादिषूपहितमेव भोजनजातं ततो गृह्णतः पञ्चमी, प्रगृहीता नाम भोजनवेलायां दातुमभ्युद्यतेन करादिना | असंसृष्टो हस्तोऽसंसृष्टं मात्र अखरण्टितं इत्युक्तं भवति। (r) संसृष्टो हस्तो संसृष्टं मात्रं खरण्टितं इत्युक्तं भवति। 0 नेन (प्र०)। असंसृष्टो हस्तो असंसृष्टं मात्रं असंसृष्टं वा मात्र संसृष्टो हस्तो।