________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1010 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, सूत्रम् 12(13) इच्छामि पडिक्कमि सूत्रम्। इच्छामि पडिक्कमिउं जो मे देवसिओ अइआरो कओ, काइओ वाइओ माणसिओ, उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दुविचिंतिओ अणायारो अणिच्छियव्वो असमणपाउग्गो नाणे दंसणे चरित्तेसुए सामाइए तिण्हं गुत्तीणं चउण्हं कसायाणं पंचण्हं महव्वयाणं छण्हं जीवणिकायाणं सत्तण्हं पिंडेसणाणं अट्ठण्हं पवयणमाऊणं नवण्हं बंभचेरगुत्तीणं दसविहे समणधम्मे समणाणं जोगाणं जं खंडिअंजं विराहियं तस्स मिच्छामि दुक्कडं। सूत्रम् 12 // (13) इच्छामि प्रतिक्रमितुं यो मया दैवसिकोऽतिचारः कृत इत्येवं पदानि वक्तव्यानि, अधुना पदार्थः- इच्छामि- अभिलषामि प्रतिक्रमितुं- निवर्तितुम्, कस्य य इत्यतिचारमाह- मयेत्यात्मनिर्देशः, दिवसेन निर्वृत्तो दिवसपरिमाणो वा दैवसिकः, अतिचरणमतिचारः, अतिक्रम इत्यर्थः, कृतो- निर्वर्तितः, तस्येति योगः, अनेन क्रियाकालमाह- मिच्छामि दुक्कडं अनेन तु निष्ठाकालमिति भावना, स पुनरतिचारः उपाधिभेदेनानेकधा भवति, अत एवाह- कायेन- शरीरेण निर्वृत्तः कायिकः कायकृत इत्यर्थः, वाचा निर्वृत्तो वाचिकः- वाकृत इत्यर्थः, मनसा निर्वृत्तो मानसः, स एव मानसिउ त्ति मनःकृत इत्यर्थःऊर्ध्वं सूत्रादुत्सूत्रः सूत्रानुक्त इत्यर्थः, मार्गः क्षायोपशमिको भावः, ऊर्ध्वं मार्गादुन्मार्गः, क्षायोपशमिकभावत्यागेनौदयिकः, भावसङ्कम इत्यर्थः, कल्पनीयः न्यायः कल्पो विधिः आचारः कल्प्य:- चरणकरणव्यापारः न कल्प्य:- अकल्प्यः, अतद्रूप इत्यर्थः, करणीयः सामान्येन कर्तव्यः न करणीयः- अकरणीयः, हेतुहेतुमद्भावश्चात्र, यत एवोत्सूत्रः अत एवोन्मार्ग इत्यादि, उक्तस्तावत्कायिको वाचिकच, अधुना मानसमाह-दुष्टोध्यातो दुर्ध्यातः- आर्तरौद्रलक्षण एकाग्रचित्ततया, दुष्टो विचिन्तितो दुर्विचिन्तितः- अशुभ एव चलचित्ततया, यत एवेत्थम्भूतः अत एवासौ न श्रमणप्रायोग्यः अश्रमणप्रायोग्यः तपस्व्यनुचित इत्यर्थः, यत एवाश्रमणप्रायोग्योऽत एवानाचारः, आचरणीयः आचारः न आचारः अनाचार:- साधूनामनाचरणीयः, यत // 1010 //