________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1001 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, | नियुक्तिः 1255-58 गन्धर्वदत्त दृष्टान्तादि। अयं च क्रोधसर्पः॥पुरुषे संयोजना स्वबुद्ध्या कार्या, क्रोधसमन्वितस्तरुणदिवाकरनयन एव भवतीत्यादि। नि०- मेरुगिरितुंगसरिसो अट्ठफणो जमलजुगलजीहालो। दाहिणपासंमि ठिओ माणेण वियट्टई नागो॥१२५५॥ मेरुगिरेस्तुङ्गानि- उच्छ्रितानि तैः सदृशः मेरुगिरितुङ्गसदृशः, उच्छ्रित इत्यर्थः, अष्टौ फणा यस्य सोऽष्टफणः जातिकुलरूपबललाभबुद्धिवाल्लभ्यकश्रुतानि द्रष्टव्यानि, तत्त्वतो यमो- मृत्युर्मृत्युहेतुत्वात् ला आदाने यमं लान्तीति- आददतीति यमला, यमला युग्मजिह्वा यस्य स यमलयुग्मजिह्वः, करण्डकन्यासमधिकृत्याऽऽह- दक्षिणपार्श्वे स्थितः, दक्षिणदिग्न्यासस्तु / दाक्षिण्यवत उपरोधतो मानप्रवृत्तेः, अत एवाह-मानेन हेतुभूतेन व्यावर्तते नागः सर्प इति गाथार्थः / / 1255 // नि०- डक्को जेण मणूसो थद्धो न गणेइ देवरायमवि / तं मेरुपव्वयनिभं कह घिच्छसितंमहानागं? // 1256 // डक्को दष्टः येन सर्पण मनुष्यः स्तब्धः सन्न गणयति देवराजानमपि इन्द्रमपि, तं इत्थम्भूतं मेरुपर्वतनिभं कथं ग्रहीष्यसि त्वं महानागं प्रधानसर्पमिति गाथार्थः॥१२५६ / / अयं च मानसर्पः॥ नि०-सललियविल्लहलगई सत्थिअलंछणफणंकिअपडागा।मायामइया नागी नियडिकवडवंचणाकुसला॥१२५७॥ सललिता-मृद्वी वेल्लहला-स्फीता गतिर्यस्याः सा सललितवेल्लहलगतिः, स्वस्तिकलाञ्छनेनाङ्किता फणापताका यस्याः सा स्वस्तिकलाञ्छनाङ्कितफणापताकेति वक्तव्ये गाथाभङ्गभयादन्यथा पाठः, मायात्मिका नागी निकृतिकपटवञ्चनाकुशला निकृतिः- आन्तरो विकारः कपट- वेषपरावर्तादिर्बाह्यः आभ्यां या वञ्चना तस्यां कुशला-निपुणेति गाथार्थः // 1257 // नि०-तंच सि वालग्गाही अणोसहिबलो अअपरिहत्थोय।साय चिरसंचियविसागहणंमिवणे वसइ नागी // 1258 // 0 उद्धत (प्र०)।