________________ 4. चतुर्थ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 995 // | मध्ययनम् प्रतिक्रमणं, नियुक्तिः 1244-46 आलोचने आराधना। नि०- सपडिक्कमणो धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स / मज्झिमयाण जिणाणं कारणजाए पडिक्कमणं // 1244 // सप्रतिक्रमणो धर्मः पुरिमस्य च पश्चिमस्य च जिनस्य, तत्तीर्थसाधुना ईर्यापथागतेनोच्चारादिविवेके उभयकालं चापराधो भवतु मावा नियमतः प्रतिक्रान्तव्यम्, शठत्वात्प्रमादबहुलत्वाच्च, एतेष्वेवस्थानेषु मध्यमानां जिनानांअजितादीनांपार्श्वपर्यन्तानां कारणजाते अपराध एवोत्पन्ने सति प्रतिक्रमणं भवति, अशठत्वात्प्रमादरहितत्वाच्चेति गाथार्थः // 1244 // तथा चाह ग्रन्थकार: नि०- जो जाहे आवन्नो साहू अन्नयरयंमिठाणंमि।सोताहे पडिक्कमई मज्झिमयाणं जिणवराणं // 1245 // यःसाधुरिति योगः यदा यस्मिन् काले पूर्वाह्लादौ आपन्नः प्राप्तः अन्यतरस्मिन् स्थाने प्राणातिपातादौ स तदैव तस्य स्थानस्य, एकाक्येव गुरुप्रत्यक्षंवा प्रतिक्रामति मध्यमानां जिनवराणामिति गाथार्थः // 1245 // आह-किमयमेवं भेदः प्रतिक्रमणकृतः? आहोश्विदन्योऽप्यस्ति?, अस्तीत्याह, यतः नि०- बावीसं तित्थयरा सामाइयसंजमं उवइसंति / छेओवट्ठावणयं पुण वयन्ति उसभोय वीरोय // 1246 // द्वाविंशतिस्तीर्थकरामध्यमाःसामायिकं संयममुपदिशन्ति, यदैव सामायिकमुच्चार्यते तदैव व्रतेषु स्थाप्यते, छेदोपस्थापनिक वदतः ऋषभश्च वीरश्च, एतदुक्तं भवति- प्रथमतीर्थङ्करचरमतीर्थकरतीर्थेषु हि प्रव्रजितमात्रः सामायिकसंयतो भवति तावद् यावच्छस्त्रपरिज्ञाऽवगमः, एवं हि पूर्वमासीत्, अधुना तु षड्जीवनिकायावगमं यावत् तया पुनः सूत्रतोऽर्थतश्चावगतया सम्यगपराधस्थानानि परिहरन् व्रतेषु स्थाप्यत इत्येवं निरतिचारः, सातिचारः पुनर्मूलस्थानं प्राप्त उपस्थाप्यत इति गाथार्थः॥ 1246 // अयं च विशेषः-आचेलुक्कोद्देसिय सिज्जातररायपिंडकिइकम्मे। वयजिट्ठपडिक्कमणे मासं पज्जोसवणकप्पे॥१॥एतद्गाथा (r) आचेलक्यमौद्देशिकं शय्यातरराजपिण्डकृतिकर्माणि। व्रतानि ज्येष्ठः प्रतिक्रमणं मासः पर्युषणाकल्पः // 1 // // 995 //