________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक 4. चतुर्थमध्ययनम् प्रतिक्रमणं, नियुक्तिः 1247 प्रतिक्रमणभेदाः। वृत्तियुतम् भाग-३ // 996 // नुसारतोऽवसेयः, इयंच सामायिके व्याख्यातैवेति गतं प्रासङ्गिकम्, अधुना यदुक्तं 'सप्रतिक्रमणोधर्म' इत्यादि, तत्प्रतिक्रमणं दैवसिकादिभेदेन निरूपयन्नाह नि०- पडिकमणं देसियराइयं च इत्तरियमावकहियं च। पक्खियचाउम्मासिय संवच्छर उत्तिमढे य॥१२४७ // प्रतिक्रमणं प्राग्निरूपितशब्दार्थम्, दैवसिकं दिवसनिर्वृत्तं रात्रिकं रजनिनिर्वृत्तम्, इत्वरं तु- अल्पकालिकं दैवसिकाद्येव यावत्कथिकं यावज्जीविकं व्रतादिलक्षणं पाक्षिकं पक्षातिचारनिर्वृत्तम्, आह- दैवसिकेनैव शोधिते सत्यात्मनि पाक्षिकादि किमर्थं?, उच्यते, गृहदृष्टान्तोऽत्र-जह गेहं पइदियहंपि सोहियं तहविपक्खसंधीए।सोहिज्जइ सविसेसं एवं इहयंपिणायव्वं॥ १॥एवं चातुर्मासिकं सांवत्सरिकम्, एतानि हि प्रतीतान्येव, उत्तमार्थे च भक्तप्रत्याख्याने प्रतिक्रमणं भवति, निवृत्तिरूपत्वात्तस्येति गाथासमुदायार्थः // 1247 ॥साम्प्रतं यावत्कथिकं प्रतिक्रमणमुपदर्शयन्नाह नि०-पंच य महव्वयाईराईछट्ठाइ चाउजामो य / भत्तपरिण्णा य तहा दुण्डंपिय आवकहियाई / / 1248 // पञ्च महाव्रतानि-प्राणातिपातादिनिवृत्तिलक्षणानि राईछट्ठाई ति उपलक्षणत्वाद् रात्रिभोजननिवृत्तिषष्ठानि पुरिमपश्चिमतीर्थकरयोस्तीर्थ इति, चातुर्यामश्च निर्वृत्तिधर्म एव भक्तपरिज्ञा च तथा, चशब्दादिङ्गिनीमरणादिपरिग्रहः, द्वयोरपि पुरिमपश्चिमयोः, चशब्दामध्यमानांच यावत्कथिकान्येतानीतिगाथार्थः ॥१२४८॥इत्थं यावत्कथिकमनेकभेदभिन्नं प्रतिपादितम्, इत्वरमपि दैवसिकादिभेदं प्रतिपादितमेव, पुनरपीत्वरप्रतिपादनायैवाह नि०- उच्चारे पासवणे खेले सिंघाणए पडिक्कमणं / आभोगमणाभोगे सहस्सकारे पडिक्कमणं // 1249 // 7 यथा गृहं प्रतिदिवसमपि शोधितं तथापि पक्षसन्धौ / शोध्यते सविशेषमेवमिहापि ज्ञातव्यम् / / 1 / / // 996