________________ 4. चतुर्थ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 994 // लोकनं करोति, किं कुसुमानि सन्ति? उत नेति, दृष्ट्वा तेषामालुञ्चनं करोति, ग्रहणमित्यर्थः, ततो विकटीकरणम्, विकसितमुकुलितार्द्धमुकुलितानां भेदेन विभजनमित्यर्थः, चशब्दात्पश्चाद्वन्थनं करोति, ततो ग्राहका गृह्णन्ति, ततोऽस्याभिलषितार्थ मध्ययनम् लाभो भवति, शुद्धिश्च चित्तप्रसादलक्षणा, अस्या एव विवक्षितत्वाद्, अन्यस्तु विपरीतकारी मालाकारस्तस्य न भवति, प्रतिक्रमणं, नियुक्तिः एवं साधुपरि कृतोपधिप्रत्युपेक्षणादिव्यापारः उच्चारादिभूमी: प्रत्युपेक्ष्य व्यापाररहितः कायोत्सर्गस्थोऽनुप्रेक्षते सूत्रम्, गुरौतु 1243 स्थिते दैवसिकावश्यकस्य मुखवस्त्रिकाप्रत्युपेक्षणादेः कायोत्सर्गान्तस्यावलोकनं करोति, पश्चादालुञ्चनं स्पष्टबुद्ध्याऽ-8 आलोचने आराधना। पराधग्रहणम्, ततो विकटीकरणं गुरुलघूनामपराधानां विभजनम्, चशब्दादालोचनाप्रतिसेवनाऽनुलोमेन ग्रन्थनम्, ततो यथाक्रमं गुरोर्निवेदनं करोति, एवं कुर्वतो भावशुद्धिरुपजायते, औदयिकभावात् क्षायोपशमिकप्राप्तिरित्यर्थः, इत्थमुक्तेन प्रकारेण आलोचिते गुरोरपराधजाले निवेदिते आराधना मोक्षमार्गाखण्डना भवति, अनालोचिते अनिवेदिते भजना विकल्पना कदाचिद्भवति कदाचिन्न भवति, तत्रेत्थं भवति-'आलोयणापरिणओ सम्मं संपट्ठिओ गुरुसगासं। जड़ अंतरावि कालं करिज्ज आराहओ तहवि॥१॥' एवं तु न भवति- इड्डीए गारवेणं बहुस्सुयमएण वावि दुच्चरियं / जोण कहेइ गुरूणं न हु सो आराहओ भणिओ॥१॥'त्ति गाथार्थः॥१२४३॥ इथंचालोचनादिप्रकारेणोभयकालं नियमत एव प्रथमचरमतीर्थकरतीर्थे सातिचारेण निरतिचारेण वा साधुना शुद्धिः कर्तव्या, मध्यमतीर्थकरतीर्थेषु पुन वम्, किन्त्वतिचारवत एव शुद्धिः क्रियत इति, आह च Oआलोचनापरिणतः सम्यक् संप्रस्थितो गुरुसकाशम् / यद्यन्तराऽपि कालं कुर्यादाराधकस्तथापि // 1 // ऋद्ध्या गौरवेण बहुश्रुतमदेन वाऽपि दुश्चरितम् / यो न कथयति गुरुभ्यो नैव स आराधको भणितः॥१॥ // 994 // R