________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् 4. चतुर्थमध्ययनम् प्रतिक्रमणं, नियुक्तिः 1242 अध्वादिनिक्षेपाः अध्वादिदृष्टान्ता:। भाग-३ // 982 // अत्थीण कयरं पियं करेमि?, वच्चेह पुत्ते पेसह, जो खेयण्णो तस्स दाहामित्ति, गयाओ, पेसिया, तेण तेसिं दोण्हवि घडगा समप्पिया, वच्चह गोउलाओ दुद्धं आणेह, ते कावोडीओ गहाय गआ, ते दुद्धघडए भरिऊण कावोडीओ गहाय पडिनियत्ता, तत्थ दोण्णि पंथा- एगो परिहारेण सो य समो, बितिओ उज्जुएण, सो पुण विसमखाणुकंटगबहुलो, तेसिं एगो उज्जुएण पट्ठिओ, तस्स अक्खुडियस्स एगो घडो भिण्णो, अंभण्णो, तेण पडतेण बिइओविभिण्णो, सो विरिक्कओगओ माउलगसगासं, बिइओसमेण पंथेण सणियं 2 आगओ अक्खुयाए दुद्धकावोडीए, एयस्स तुट्ठो, इयरो भणिओ-न मए भणियं को चिरेण लहुं वा एहित्ति, मए भणियं- दुद्धं आणेहत्ति, जेण आणीयं तस्स दिण्णा, इयरो धाडिओ, एसा दव्वपरिहरणा, भावे दिटुंतस्स उवणओ- कुलपुत्तत्थाणीएहिं तित्थगरेहिं आणत्तं दुद्धत्थाणीयं चारित्तं अविराहंतेहिं कण्णगत्थाणीया सिद्धी पावियव्वत्ति, गोउलत्थाणीओ मणूसभवो, तओ चरित्तस्स मग्गो उजुओ जिणकप्पियाण, ते भगवंतो संघयणधिइसंपण्णा दव्वखित्तकालभावावइविसमंपि उस्सग्गेणं वच्चंति, वंको थेरकप्पियाण सउस्सग्गाववओऽसमो मग्गो, जो अजोग्गो कतरं प्रियं करोमि?, व्रजतं पुत्रौ प्रेषयतम्, यः खेदज्ञस्तस्मै दास्यामीति, गते, प्रेषितौ, तेन ताभ्यां द्वाभ्यामपि घटौ समर्पितौ, व्रजतं गोकुलाद्दुग्धमानयतम्, तो कपोत्यौ गृहीत्वा गतौ, तौ दुग्धघटौ भृत्वा कपोत्यौ गृहीत्वा प्रतिनिवृत्तौ, तत्र द्वौ पन्थानौ- एकः परिहारेण (भ्रमणेन), स च समः, द्वितीय ऋजुकेन, स. पुनर्विषमस्थाणुकण्टकबहुलः, तयोरेक ऋजुना प्रस्थितः, तस्यास्फालितस्य (स्य स्खलितस्य) एको घटो भिन्नः, तेन पतता द्वितीयोऽपि भिन्नः. स विरिक्तो गतो मातुलसकाशम्, द्वितीयः समेन पथा शनैः 2 आगतोऽक्षतया दुग्धकापोत्या, एतस्मै तुष्टः, इतरो भणितः- न मया भणितं कश्चिरेण लघु वाऽऽयातीति, मया भणितंदुग्धमानयतमिति, येनानीतं तस्मै दत्ता, इतरो धाटितः, एषा द्रव्यपरिहरणा, भावे दृष्टान्तस्योपनयः- कुलपुत्रस्थानीयैः तीर्थकरैराज्ञप्तं दुग्धस्थानीयं चारित्रमविराधयद्भिः कन्यकास्थानीया सिद्धिः प्राप्तव्येति, गोकुलस्थानीयो मनुष्यभवः, ततश्चरित्रस्य मार्ग ऋजुको जिनकल्पिकानाम्, ते भगवन्तः संहननधृतिसंपन्ना द्रव्यक्षेत्रकालभावापद्विषममपि उत्सर्गेण व्रजन्ति, वक्रः स्थविरकल्पिकानां सोत्सर्गापवादः असमो मार्गः, योऽयोग्यो. // 982 //