SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ 4. चतुर्थमध्ययनम् प्रतिक्रमणं, नियुक्तिः 1237-38 प्रतिक्रमणैकार्थिकानि तेषां निक्षेपाः। // 977 // परिहरणा, यावत्कथिका तुराजपिण्डादिपरिहरणा, अनुग्रहपरिहरणा अक्खोडभंगपरिहरणा, भावपरिहरणा प्रशस्ता अप्रशस्ता च, अप्रशस्ता ज्ञानादिपरिहरणा, प्रशस्ता क्रोधादिपरिहरणा, अथवौघत एवोपयुक्तस्य सम्यग्दृष्टेः, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्याः प्रतिक्रमणमप्यशुभयोगपरिहारेणैवेति, वारणेदानीम्, 'वृञ् वरणे' इत्यस्य ण्यन्तस्य ल्युडि वारणा भवति, वारणं वारणा निषेध इत्यर्थः, सा च नामादिभेदतः षोढा भवति, तथा चाह नि०- णामंठवणा दविए खित्ते काले तहेव भावे य। एसो उ वारणाए णिक्खेवो छव्विहो होइ // 1237 // * तत्र नामस्थापने गतार्थे, द्रव्यवारणा तापसादीनां हलकृष्टादिपरिभोगवारणा, अनुपयुक्तस्य सम्यग्दृष्टेर्वा देशनायां उपयुक्तस्य वा निह्नवस्यापथ्यस्य वा रोगिण इतीयं चोदनारूपा, क्षेत्रवारणा तु यत्र क्षेत्रे व्यावय॑ते क्रियते वा क्षेत्रस्य वाऽनार्यस्येति, कालवारणा यस्मिन् व्यावय॑ते क्रियते वा कालस्य वा विकालादेर्वर्षासु वा विहारस्येति, भाववारणेदानीम्, सा च द्विविधाप्रशस्ताऽप्रशस्ता च, प्रशस्ता प्रमादवारणा, अप्रशस्ता संयमादिवारणा, अथवौघत एवोपयुक्तस्य सम्यग्दृष्टेरिति, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्याः स्फुटा, निवृत्तिरधुना, 'वृत वर्तने' इत्यस्य निपूर्वस्य क्तिनि निवर्तनं निवृत्तिः, सा च षोढा, यत आह नि०- नाम ठवणा दविए खित्ते काले तहेव भावे य / एसोय नियत्तीए णिक्खेवो छव्विहो होइ॥१२३८॥ नामस्थापने गतार्थे, द्रव्यनिवृत्तिस्तापसादीनां हलकृष्टादिनिवृत्तिरित्याद्यखिलो भावार्थः स्वबुद्ध्या वक्तव्यः, यावत् प्रशस्तभावनिवृत्त्येहाधिकारः / निन्देदानीम्, तत्र णिदि कुत्सायां अस्य गुरोश्च हलः (पा०३-३-१०३) इत्यकारः टाप, निन्दनं 0 आस्फोटकानां यो भङ्गस्तस्य परिहरणा प्रतिलेखनादिविधिविराधनापरिहरणेत्यर्थः / // 977 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy